Kanda 2 AYK-050-Gangatheere Guhasamagamaha

विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः

अयोध्याभिमुखो धीमान् प्राञ्जलिर्वाक्यमब्रवीत्

आपृच्छे त्वां पुरिश्रेष्ठे काकुत्स्थपरिपालिते

दैवतानि यानि त्वां पालयन्त्यावसन्ति

निवृत्तवनवासस्त्वामनृणो जगतीपतेः

पुनर्द्रक्ष्यामि मात्रा पित्रा सह सङ्गतः

ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम्

अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदं जनम्

अनुक्रोशो दया चैव यथार्हं मयि वः कृतः

चिरं दुःखस्य पापीयो गम्यतामर्थसिद्धये

तेऽभिवाद्य महात्मानं कृत्वा चापि प्रदक्षिणम्

विलपन्तो नरा घोरं व्यतिष्ठन्त क्वचित्क्वचित्

तथा विलपतां तेषामतृप्तानां राघवः

अचक्षुर्विषयं प्रायाद्यथार्कः क्षणदामुखे

ततो धान्यधनोपेतान् दानशीनजनाञ्छिवान्

अकुतश्चिद्भयान् रम्यांश्चैत्ययूपसमावृतान्

उद्यानाम्रवणोपेतान् सम्पन्नसलिलाशयान्

तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान्

लक्षणीयान् नरेन्द्राणां ब्रह्मघोषाभिनादितान्

रथेन पुरुषव्याघ्रः कोसलानत्यवर्त्तत

मध्येन मुदितं स्फीतं रम्योद्यानसमाकुलम्

राज्यं भोग्यं नरेन्द्राणां ययौ धृतिमतां वरः

तत्र त्रिपथगां दिव्यां शिवतोयामशैवलाम्

ददर्श राघवो गङ्गां पुण्यामृषिनिषेविताम्

आश्रमैरविदूरस्थैः श्रीमद्भिः समलङ्कृताम्

काले सरोभिर्हृष्टाभिः सेविताम्भो ह्रदां शिवाम्

देवदानवगन्धर्वैः किन्नरैरुपशोभिताम्

नानागन्धर्वपत्नीभिः सेवितां सततं शिवाम्

देवाक्रीडाशताकीर्णां देवो़द्यानशतायुताम्

देवार्थमाकाशगमां विख्यातां देवपद्मिनीम्

जलाघाताट्टहासोग्रां फेननिर्मलहासिनीम्

क्वचिद्वेणीकृतजलां क्वचिदावर्त्तशोभिताम्

क्वचित्स्तिमितगम्भीरां क्वचिद्वेगजलाकुलाम्

क्वचिद्गम्भीरनिर्घोषां क्वचिद्भैरवनिस्वनाम्

देवसङ्घाप्लुतजलां निर्मलोत्पलशोभिताम्

क्वचिदाभोगपुलिनां क्वचिन्निर्मलवालुकाम्

सदामत्तैश्च विहगैरभिसन्नादितान्तराम्

क्वचित्तीररुहैर्वृक्षैर्मालाभिरुपशोभिताम्

क्वचित्फुल्लोत्पलच्छन्नां क्वचित्पद्मवनाकुलाम्

क्वचित्कुमुदषण्डैश्च कुड्मलैरुपशोभिताम्

नानापुष्परजोध्वस्तां समदामिव क्वचित्

व्यपेतमलसङ्घातां मणिनिर्मलदर्शनाम्

दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः

देवोपवाह्यैश्च मुहुः सन्नादितवनान्तराम्

प्रमदामिव यत्नेन भूषितां भूषणोत्तमैः

फलैः पुष्पैः किसलयैर्वृतां गुल्मैर्द्विजैस्तथा

शिंशुमारैश्च नक्रैश्च भुजङ्गैश्च निषेविताम्

विष्णुपादच्युतां दिव्यामपापां पापनाशिनीम्

समुद्रमहिषीं गङ्गां सारसक्रौञ्चनादिताम्

आससाद महाबाहुः श्रृङ्गवेरपुरं प्रति

तामूर्मिकलिलावर्त्तामन्ववेक्ष्य महारथः

सुमन्त्रमब्रवीत् सूतमिहैवाद्य वसामहे

अविदूरादयं नद्या बहुपुष्पप्रवालवान्

सुमहानिङ्गुदीवृक्षो वसामोऽत्रैव सारथे

द्रक्ष्यामः सरितां श्रेष्ठां सम्मान्यसलिलां शिवाम्

देवदानवगन्धर्वमृगमानुषपक्षिणाम्

लक्ष्मणश्च सुमन्त्रश्च बाढमित्येव राघवम्

उक्त्वा तमिङ्गुदीवृक्षं तदोपययतुर्हयैः

रामोऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः

रथादवातरत्तस्मात् सभार्यः सहलक्ष्मणः

सुमन्त्रोप्यवतीर्य्या स्मान्मोनचयित्वा हयोत्तमान्

वृक्षमूलगतं राममुपतस्थे कृताञ्जलिः

तत्र राजा गुहो नाम रामस्यात्मसमः सखा

निषादजात्यो बलवान् स्थपतिश्चेति विश्रुतः

श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम्

वृद्धैः परिवृतोऽमात्यैर्ज्ञातिभिश्चाप्युपागतः

ततो निषादाधिपतिं दृष्ट्वा दूरादुपस्थितम्

सह सौमित्रिणा रामः समागच्छद्गुहेन सः

तमार्तः संपरिष्वज्य गुहो राघवमब्रवीत्

यथायोध्या तथेयं ते राम किं करवाणि ते

ईदृशं हि महाबाहो कः प्राप्स्यत्यतिथिं प्रियम्

ततो गुणवदन्नाद्यमुपादाय पृथग्विधम्

अर्ध्यं चोपानयत् क्षिप्रं वाक्यं चेदमुवाच

स्वागतं ते महाबाहो तवेयमखिला मही

वयं प्रेष्या भवान् भर्त्ता साधु राज्यं प्रशाधि नः

भक्ष्यं भोज्यं पेयं लेह्यं चेदमुपस्थितम्

शयनानि मुख्यानि वाजिनां खादनं ते

पद्भ्यामभिगमाच्चैव स्नेहसन्दर्शनेन

प्रशाधीति वाक्यकृतेन स्नेहप्रदर्शनेन \*

भुजाभ्यां साधु पीनाभ्यां पीडयन् वाक्यमब्रवीत्

दिष्ट्या त्वां गुह पश्यामि ह्यरोगं सह बान्धवैः

अपि ते कुशलं राष्ट्रे मित्रेषु धनेषु

यत्त्विदं भवता किञ्चित् प्रीत्या समुपकल्पितम्

सर्वं तदनुजानामि हि वर्त्ते प्रतिग्रहे

कुशचीराजिनधरं फलमूलाशिनं माम्

विद्धि प्रणिहितं धर्मे तापसं वनगोचरम्

अश्वानां खादनेनाहमर्थी नान्येन केनचित्

एतावतात्र भवता भविष्यामि सुपूजितः

एते हि दयिता राज्ञः पितुर्दशरथस्य मे

एतैः सुविहितैरश्वैर्भविष्याम्यहमर्चितः

अश्वानां प्रतिपानं खादनं चैव सोन्वशात्

गुहस्तत्रैव पुरुषांस्त्वरितं दीयतामिति

ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम्

जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम्

तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः

सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः

गुहोपि सह सूतेन सौमित्रिमनुभाषयन्

अन्वजाग्रत्ततो राममप्रमत्तो धनुर्द्धरः

तथा शयानस्य ततोऽस्य धीमतो यशस्विनो दाशरथेर्महात्मनः

अदृष्टदुःखस्य सुखोचितस्य सा तदा व्यतीयाय चिरेण शर्वरी