Kanda 2 AYK-049-Gomathyadi Naditharanam

रामोऽपि रात्रिशेषेण तेनैव महदन्तरम्

जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन्

तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा

उपास्य शिवां सन्ध्यां विषयान्तं व्यगाहत

पश्यन्नतिययौ शीघ्रं शनैरिव हयोत्तमैः

श्रृण्वन् वाचो मनुष्याणां ग्रामसंवासवासिनाम्

राजानं धिग् दशरथं कामस्य वशमास्थितम्

हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी

तीक्ष्णा सम्भिन्नमर्यादा तीक्ष्णकर्मणि वर्त्तते

या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम्

वनवासे महाप्रज्ञं सानुक्रोशं जितेन्द्रियम्

कथं नाम महाभागा सीता जनकनन्दिनी

सदा सुखेष्वभिरता दुःखान्यनुभविष्यति

अहो दशरथो राजा निःस्नेहः स्वसुतं प्रियम्

प्रजानामनघं रामं परित्यक्तुमिहेच्छति

एता वाचो मुनष्याणां ग्रामसंवासवासिनाम्

श्रृण्वन्नतिययौ वीरः कोसलान् कोसलेश्वरः

ततो वेदश्रुतिं नाम शिववारिवहां नदीम्

उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम्

गत्वा तु सुचिरं कालं ततः शिवजलां नदीम्

गोमतीं गोयुतानूपामतरत् सागरङ्गमाम्

गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः

मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम्

महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा

स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत्

सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः

हंसमत्तस्वरः श्रीमानुवाच पुरुषर्षभः

कदाहं पुनरागम्य सरय्वाः पुष्पिते वने

मृगयां पर्यटिष्यामि मात्रा पित्रा सङ्गतः

राजर्षीणां हि लोकेऽस्मिन् रत्यर्थं मृगया वने

काले वृतां तां मनुजैः धन्विनामभिकाङ्क्षिताम्

नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने

रतिर्ह्येषातुला लोके राजर्षिगणसम्मता

तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा

तं तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन्