Kanda 2 AYK-048-Shokamagnaa Ayodhya

तेषामेवं विषण्णानां पीडितानामतीव

बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया

अनुगम्य निवृत्तनां रामं नगरवासिनाम्

उद्गतानीव सत्त्वानि बभूबुरमनस्विनाम्

स्वंस्वं निलयमागम्य पुत्रदारैः समावृताः

अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः

चाहृष्यन्न चामोदन् वणिजो प्रसारयन्

चाशोभन्त पुण्यानि नापचन् गृहमेधिनः

नष्टं दृष्ट्वा नाभ्यनन्दन् विपुलं वा धनागमम्

पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत

गृहेगृहे रुदन्त्यश्च भर्तारं गृहमागतम्

व्यगर्हयन्त दुःखार्त्ता वाग्भिस्तोत्रैरिव द्विपान्

किं नु तेषां गृहैः कार्य्यं किं दारैः किं धनेन वा

पुत्रैर्वा किं सुखैर्वापि ये पश्यन्ति राघवम्

एकः सत्पुरुषो लोके लक्ष्मणः सह सीतया

योऽनुगच्छति काकुत्स्थं रामं परिचरन् वने

आपगाः कृतपुण्यास्ताः पद्मिन्यश्च सरांसि

येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि

शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः

आपगाश्च महानूपाः सानुमन्तश्च पर्वताः

काननं वापि शैलं वा यं रामोऽभिगमिष्यति

प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम्

विचित्रकुसुमापीडा बहुमञ्जरिधारिणः

राघवं दर्शयिष्यन्ति नगा भ्रमरशालिनः

अकाले चापि मुख्यानि पुष्पाणि फलानि

दर्शयिष्यन्त्यनुक्रोशाद्गिरयो राममागतम्

विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झरान्

पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम्

यत्र रामो भयं नात्र नास्ति तत्र पराभवः

हि शूरो महाबाहुः पुत्रो दशरथस्य

पुराभवति नो दूरादनुगच्छाम राघवम्

पादच्छाया सुखा भर्तुस्तादृशस्य महात्मनः

हि नाथो जनस्यास्य गतिः परायणम्

वयं परिचरिष्यामः सीतां यूयं तु राघवम्

इति पौरस्त्रियो भर्तॄन् दुःखार्तास्तत्तदब्रुवन्

युष्माकं राघवो़ऽरण्ये योगक्षेमं विधास्यति

सीता नारीजनस्यास्य योगक्षेमं करिष्यति

को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन

सम्प्रीयेतामनोज्ञेन वासेन हृतचेतसा

कैकेय्या यदि चेद्राज्यं स्यादधर्म्यमनाथवत्

हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः

यया पुत्रश्च भर्ता त्यक्तावैश्वर्यकारणात्

कं सा परिहरेदन्यं कैकेयी कुलपांसनी

कैकेय्या वयं राज्ये भृतका निवसेम हि

जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे

या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा

कस्तां प्राप्य सुखं जीवेदधर्म्यां दुष्टचारिणीम्

उपद्रुतमिदं सर्वमनालम्बमनायकम्

कैकेय्या हि कृते सर्वं विनाशमुपयास्यति

हि प्रव्रजिते रामे जीविष्यति महीपतिः

मृते दशरथे व्यक्तं विलापस्तदनन्तरम्

ते विषं पिबतालोड्य क्षीणपुण्याः सुदुर्गताः

राघवं वानुगच्छध्वमश्रुतिं वापि गच्छत

मिथ्या प्रव्राजितो रामः सभार्य्यः सह लक्ष्मणः

भरते सन्निसृष्टाः स्मः सौनिके पशवो यथा

पूर्णचन्द्राननः श्यामो गूढजत्रुररिन्दमः

आजानुबाहुः पद्माक्षो रामो लक्ष्मणपूर्वजः

पूर्वाभिभाषी मधुरः सत्यवादी महाबलः

सौम्यश्च सर्वलोकस्य चन्द्रवत्प्रियदर्शनः

नूनं पुरुषशार्दूलो मत्तमातङ्गविक्रमः

शोभयिष्यत्यरण्यानि विचरन् महारथः

तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः

चुक्रुशुर्दुःखसन्तप्ता मृत्योरिव भयागमे

इत्येवं विलपन्तीनां स्त्रीणां वेश्मसु राघवम्

जगामास्तं दिनकरो रजनी चाभ्यवर्त्तत

नष्टज्वलनसम्पाता प्रशान्ताध्यायसत्कथा

तिमिरेणाभिलिप्तेव सा तदा नगरी बभौ

उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया

अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम्

तथा स्त्रियो रामनिमित्तमातुरा यथा सुते भ्रातरि वा विवासिते

विलप्य दीना रुरुदुर्विचेतसः सुतैर्हि तासामधिको हि सोऽभवत्

प्रशान्तगीतोत्सवनृत्तवादना व्यपास्तहर्षा पिहितापणोदया

तदा ह्ययोध्या नगरी बभूव सा महार्णवः सङ्क्षपितोदको यथा