Kanda 2 AYK-047-Pouranam Prathya Gamanam

प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना

शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः

शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः

आलोकमपि रामस्य पश्यन्ति स्म दुःखिताः

ते विषादार्तवदना रहितास्तेन धीमता

कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः

धिगस्तु खलु निद्रां तां ययापहृतचेतसः

नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम्

कथं नाम महाबाहुः तथा वितथक्रियः

भक्तं जनं परित्यज्य प्रवासं राघवो गतः

यो नः सदा पालयति पिता पुत्रानिवौरसान्

कथं रघूणां श्रेष्ठस्त्यक्त्वा नो विपिनं गतः

इहैव निधनं यामो महाप्रस्थानमेव वा

रामेण रहितानां हि किमर्थं जीवितं हि नः

सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति

तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथ पावकम्

किं वक्ष्यामौ महाबाहुरनसूयः प्रियंवदः

नीतः राघवोऽस्माभिरिति वक्तुं कथं क्षमम्

सा नूनं नगरी दीना दृष्ट्वास्मान् राघवं विना

भविष्यति निरानन्दा सस्त्रीबालवयोधिका

निर्यातस्तेन वीरेण सह नित्यं जितात्मना

विहीनास्तेन पुनः कथं पश्याम तां पुरीम्

इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः

विलपन्ति स्म दुःखार्ता विवत्सा इव धेनवः

ततो मार्गानुसारेण गत्वा किञ्चित्क्षणं पुनः

मार्गनाशाद् विषादेन महता समभिप्लुताः

रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः

किमिदं किं करिष्यामो दैवेनोपहता इति

ततो यथागतेनैव मार्गेण क्लान्तचेतसः

अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम्

आलोक्य नगरीं तां क्षयव्याकुलमानसाः

अवर्तयन्त तेऽश्रूणि नयनैश्शोकपीडितैः

एषा रामेण नगरी रहिता नातिशोभते

आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा

चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम्

अपश्यन्निहतानन्दं नगरं ते विचेतसः

ते तानि वेश्मानि महाधनानि दुःखेन दुःखोपहता विशन्तः

नैव प्रजज्ञुः स्वजनं जनं वा निरीक्षमाणाः प्रविनष्टहर्षाः