Kanda 2 AYK-041-Praja Shoka Varnanam

तस्मिंस्तु पुरुषव्याघ्रे विनिर्याते कृताञ्जलौ

आर्तशब्दोऽथ सञ्जज्ञे स्त्रीणामन्तःपुरे महान्

अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः

यो गतिः शरणं चासीत् नाथः क्वनु गच्छति

क्रुद्ध्यत्यभिशप्तोपि क्रोधनीयानि वर्जयन्

क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्वचिद्गतः

कौसल्यायां महातेजा यथा मातरि वर्तते

तथा यो वर्त्ततेऽस्मासु महात्मा क्वनु गच्छति

कैकेय्या क्लिश्यमानेन राज्ञा सञ्चोदितो वनम्

परित्राता जनस्यास्य जगतः क्वनु गच्छति

अहो निश्चेतनो राजा जीवलोकस्य सम्प्रियम्

धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति

इति सर्वा महिष्यस्ता विवत्सा इव धेनवः

रुरुदुश्चैव दुःखार्त्ताः सस्वरं विचुक्रुशुः

तमन्तःपुरे घोरमार्तशब्दं महीपतिः

पुत्रशोकाभिसन्तप्तः श्रुत्वा चासीत् सुदुःखितः

नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः

अकुर्वन्नप्रजाः कार्यं सूर्यश्चान्तरधीयत

व्यसृजन् कवलान्नागा गावो वत्सान्न पाययन्

पुत्रं प्रथमजं लब्ध्वा जननीनाभ्यनन्दत

त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि

दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः

नक्षत्राणि गतार्चीषि ग्रहाश्च गततेजसः

विशाखास्तु सधूमाश्च नभसि प्रचकाशिरे

कालिकानिलवेगेन महोदधिरिवोत्थितः

रामे वनं प्रव्रजिते नगरं प्रचचाल तत्

दिशः पर्याकुलाः सर्वास्तिमिरेणेव संवृताः

ग्रहो नापि नक्षत्रं प्रचकाशे किञ्चन

अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत्

आहारे वा विहारे वा कश्चिदकरोन्मनः

शोकपर्यायसन्तप्तः सततं दीर्घमुच्छ्वसन्

अयोध्यायां जनः सर्वः शुशोच जगतीपतिम्

बाष्पपर्याकुलमुखो राजमार्गगतो जनः

हृष्टो लक्ष्यते कश्चित्सर्वः शोकपरायणः

वाति पवनः शीतो शशी सौम्यदर्शनः

सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत्

अनर्थिनः सुताः स्त्रीणां भर्त्तारो भ्रातरस्तथा

सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन्

ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः

शोकभारेण चाक्रान्ताः शयनं जहुस्तदा

ततस्त्वयोध्या रहिता महात्मना पुरन्दरेणेव मही सपर्वता

चचाल घोरं भयशोकपीडिता सनागयोधाश्वगणा ननाद