Kanda 2 AYK-038- Ramena Dashratha Prathana

तस्यां चीरं वसानायां नाथवत्यामनाथवत्

प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्विति

तेन तत्र प्रणादेन दुःखितः महीपतिः

चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः

निश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत्

कैकेयि कुशचीरेण सीता गन्तुमर्हति

सुकुमारी बाला सततं सुखोचिता

नेयं वनस्य योग्येति सत्यमाह गुरुर्मम

इयं हि कस्यापकरोति किञ्चित् तपस्विनी राजवरस्य कन्या

या चीरमासाद्य जनस्य मध्ये स्थिता विसञ्ज्ञा श्रमणीव काचित्

चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा

यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नैः

अजीवनार्हेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत्

त्वया हि बाल्यात् प्रतिपन्नमेतत्तन्मां दहेद्वेणुमिवात्मपुष्पम्

रामेण यदि ते पापे किञ्चित्कृतमशोभनम्

अपकारः इह ते वैदेह्या दर्शितोऽथ मे

मृगीवोत्फुल्लनयना मृदुशीला तपस्विनी

अपकारं कमिह ते करोति जनकात्मजा

ननु पर्याप्तमेतत्ते पापे रामविवासनम्

किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः

प्रतिज्ञातं मया तावत्त्वयोक्तं देवि शृण्वता

रामं यदभिषेकाय त्वमिहागतमब्रवीः

तत्त्वेतत् समतिक्रम्य निरयं गन्तुमिच्छसि

मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम्

इतीव राजा विपलन् महात्मा शोकस्य नान्तं ददर्श किञ्चित्

भृशातुरत्वाच्च पपात भूमौ तेनैव पुत्रव्यसने निमग्नः

एवं ब्रुवन्तं पितरं रामः संप्रस्थितो वनम्

अवाक्छिरसमासीनमिदं वचनमब्रवीत्

इयं धार्मिक कौसल्या मम माता यशस्विनी

वृद्धा चाक्षुद्रशीला त्वां देव गर्हते

मया विहीनां वरद प्रपन्नां शोकसागरम्

अदृष्टपूर्वव्यसनां भूयः सम्मन्तुमर्हसि

पुत्रशोकं यथा नर्च्छेत्त्वया पूज्येन पूजिता

मां हि सञ्चिन्तयन्तीयमपि जीवेत्तपस्विनी

इमां महेन्द्रोपम जातगर्धिनीं तथा विधातु जननीं ममार्हसि

यथा वनस्थे मयि शोककर्शिता जीवितं न्यस्य यमक्षयं व्रजेत्