Kanda 2 AYK-035-Sumanthrakrutham Kaikeyee Garhanam

ततो निर्द्धूय सहसा शिरो निश्वस्य चासकृत्

पाणिं पाणौ विनिष्पिष्य दन्तान् कटकटाप्य

लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत्

कोपाभिभूतः सहसा सन्तापमशुभं गतः

मनः समीक्षमाणश्च सूतो दशरथस्य सः

कम्पयन्निव कैकेय्या हृदयं वाक्छरैः शितैः

वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुगैः

कैकेय्याः सर्वमर्माणि सुमन्त्रः प्रत्यभाषत

भर्त्ता सर्वस्य जगतः स्थावरस्य चरस्य

ह्यकार्यतमं किञ्चित्तव देवीह विद्यते

पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः

यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम्

महोदधिमिवाक्षोभ्यं सन्तापयसि कर्मभिः

मावमंस्था दशरथं भर्त्तारं वरदं पतिम्

भर्तुरिच्छा हि नारीणां पुत्रकोट्यां विशिष्यते

यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये

इक्ष्वाकुकुलनाथेऽस्मिंस्तल्लोपयितुमिच्छसि

राजा भवतु ते पुत्रो भरतः शास्तु मेदिनीम्

वयं तत्र गमिष्यामो यत्र रामो गमिष्यति

हि ते विषये कश्चिद्ब्राह्मणे वस्तुमर्हति

तादृशं त्वममर्यादमद्य कर्म चिकीर्षसि

आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम्

आचरन्त्या विवृता सद्यो भवति मेदिनी

महाब्रह्मर्षिजुष्टा वा ज्वलन्तो भीमदर्शनाः

धिग्वाग्दण्डा हिंसन्ति रामप्रव्राजने स्थिताम्

आम्रं छित्त्वा कुठारेण निम्बं परिचरेत्तु यः

यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत्

अभिजातं हि ते मन्ये यथा मातुस्तथैव

हि निम्बात् स्रवेत् क्षौद्रं लोके निगदितं वचः

तव मातुरसद्ग्राहं विद्मः पूर्वं यथा श्रुतम्

सर्वभूतरुतं तस्मात् सञ्जज्ञे वसुधाधिपः

तेन तिर्यग्गतानां भूतानां विदितं वचः

ततो जृम्भस्य शयने विरुताद्भूरिवर्चसः

पितुस्ते विदितो भावः तत्र बहुधाऽहसत्

तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती

हासं ते नृपतं सौम्य जिज्ञासामीति चाब्रवीत्

नृपश्चोवाच तां देवीं शंसामि ते यदि

ततो मे मरणं सद्यो भविष्यति संशयः

माता ते पितरं देवि ततः केकयमब्रवीत्

शंस मे जीव वा मा वा मामपहसिष्यसि

प्रियया तथोक्तः सन् केकयः पृथिवीपतिः

तस्मै तं वरदायार्थं कथयामास तत्त्वतः

ततः वरदः साधू राजानं प्रत्यभाषत

म्रियतां ध्वंसतां वेयं मा कृथास्त्वं महीपते

तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः

मातरं ते निरस्याशु विजहार कुबेरवत्

तथा त्वमपि राजानं दुर्ज्जनाचरिते पथि

असद्ग्राहमिमं मोहात् कुरुषे पापदर्शिनि

सत्यश्चाद्य प्रवादोऽयं लौकिकः प्रतिभाति मा

पितॄन् समनुजायन्ते नरा मातरमङ्गनाः

नैवं भव गृहाणेदं यदाह वसुधाधिपः

भर्त्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव

मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम्

भर्त्तारं लोकभर्त्तारमसद्धर्ममुपादधाः

हि मिथ्या प्रतिज्ञातं करिष्यति तवानघः

श्रीमान् दशरथो राजा देवि राजीवलोचनः

ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता

रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम्

परिवादो हि ते देवि महान् लोके चरिष्यति

यदि रामो वनं याति विहाय पितरं नृपम्

राज्यं राघवः पातु भव त्वं विगतज्वरा

हि ते राघवादन्यः क्षमः पुरवरे वसेत्

रामे हि यौवराज्यस्थे राजा दशरथो वनम्

प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन्

इति सान्त्वैश्च तीक्ष्णैश्च कैकेयीं राजसंसदि

सुमन्त्रः क्षोभयामास भूय एव कृताञ्जलिः

नैव सा क्षुम्यते देवी स्म परिदूयते

चास्या मुखवर्णस्य विक्रिया लक्ष्यते तदा