एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता
प्रसक्ता श्रुमुखी मन्दमिदं वचनमब्रवीत्
ये त्वया कीर्त्तिता दोषा वने वस्तव्यतां प्रति
गुणानित्येव तान् विद्धि तव स्नेहपुरस्कृतान्
मृगाः सिंहा गजाश्चैव शार्दूलाः शरभास्तथा
पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः
अदृष्टपूर्वरूपत्वात् सर्वे ते तव राघव
रूपं दृष्ट्वापसर्पेयुर्भये सर्वे हि बिभ्यति
त्वया च सह गन्तव्यं मया गुरुजनाज्ञया
त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम्
न च मां त्वत्समीपस्थामपि शक्नोति राघव
सुराणामीश्वरः शक्रः प्रधर्षयितुमोजसा
पतिहीना तु या नारी न सा शक्ष्यति जीवितुम्
काममेवंविधं राम त्वया मम विदर्शितम्
अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम्
पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने
लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं पुरा
वनवासकृतोत्साहा नित्यमेव महाबल
आदेशो वनवासस्य प्राप्तव्यस्स मया किल
सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा
कृतादेशा भविष्यामि गमिष्यामि सह त्वया
कालश्चायं समुत्पन्नः सत्यवाग् भवतु द्विजः
वनवासे हि जानामि दुःखानि बहुधा किल
प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः
कन्यया च पितुर्गेहे वनवासः श्रुतो मया
भिक्षिण्याः साधुवृत्ताया मम मातुरिहाग्रतः
प्रसादितश्च वै पूर्वं त्वं वै बहुविधं प्रभो
गमनं वनवासस्य काङ्क्षितं हि सह त्वया
कृतक्षणाहं भद्रते गमनं प्रति राघव
वनवासस्य शूरस्य चर्या हि मम रोचते
शुद्धात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा
भर्त्तारमनुगच्छन्ती भर्त्ता हि मम दैवतम्
प्रेत्यभावेऽपि कल्याणः सङ्गमो मे सह त्वया
इह लोके च पितृभिर्या स्त्री यस्य महामते
अदृभिर्दत्त स्वधर्मेण प्रेत्यभावेपि तस्य सा
एवमस्मात् स्वकां नारीं सुवृत्तां हि पतिव्रताम्
नाभिरोच्यसे नेतुं त्वं मां केनेह हेतुना
भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः
नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम्
यदि मां दुःखिता मेवं वनं नेतुं न चेच्छसि
विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात्
एवं बहुविधं तं सा याचते गमनं प्रति
नानुमेने महाबाहुस्तां नेतुं विजनं वनम्
एवमुक्ता तु सा चिन्तां मैथिली समुपागता
स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः
चिन्तयन्तीं तथा तां तु निवर्त्तयितुमात्मवान्
ताम्रोष्ठीं स तदा सीतां काकुत्स्थो बह्वसान्त्वयत्