Kanda 2 AYK-028-Vanavasa Dukka Varnanam

एव ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः

नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन्

सान्त्वयित्वा पुनस्तां तु बाष्पदूषितलोचनाम्

निवर्त्तनार्थे ध्ार्मात्मा वाक्यमेतदुवाच

सीते महाकुलीनासि धर्मे निरता सदा

इहाचरस्व धर्मं त्वं मा यथा मनसः सुखम्

सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले

वने दोषा हि बहवो वदतस्तान्निबोध मे

सीते विमुच्यतामेषा वनवासकृता मतिः

बहुदोषं हि कान्तारं वनमित्यभिधीयते

हितबुद्ध्या खलु वचो मयैतदभिधीयते

सदा सुखं जानामि दुःखमेव सदा वनम्

गिरिनिर्झरसम्भूता गिरिकन्दरवासिनाम्

सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम्

क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये महामृगाः

दृष्ट्वा समभिवर्त्तन्ते सीते दुःखमतो वनम्

सग्राहाः सरितश्चैव पङ्कवत्यश्च दुस्तराः

मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम्

लताकण्टकसङ्कीर्णाः कृकवाकूपनादिताः

निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम्

सुप्यते पर्णशय्यासु स्वयम्भग्नासु भूतले

रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम्

अहोरात्रं सन्तोषः कर्त्तव्यो नियतात्मना

फलैर्वृक्षावपतितैः सीते दुःखमतो वनम्

उपवासश्च कर्तव्यो यथाप्राणेन मैथिलि

जटाभारश्च कर्त्तव्यो वल्कलाम्बरधारिणा

देवतानां पितॄणां कर्तव्यं विधिपूर्वकम्

प्राप्तानामतिथीनां नित्यशः प्रतिपूजनम्

कार्यस्त्रिरभिषेकश्च कालेकाले नित्यशः

चरता नियमेनैव तस्माद्दुःखतरं वनम्

उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः

आर्षेण विधिना वेद्यां बाले दुःखमतो वनम्

यथालब्धपेन सन्तोषः कर्त्तव्यस्तेन मैथिलि

यताहारैर्वचनरैर्नित्यं दुःखमतो वनम्

अतीव वातास्तिमिरं बुभुक्षा चात्र नित्यशः

भयानि महान्त्यत्र ततो दुःखतरं वनम्

सरीसृपाश्च बहवो बहुरूपाश्च भामिनि

चरन्ति पृथिवीं दर्पात्ततो दुःखतरं वनम्

नदीनिलयनाः सर्पा नदीकुटिलगामिनः

तिष्ठन्त्यावृत्य पन्थानं ततो दुःखतरं वनम्

पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह

बाधन्ते नित्यमबले सर्वं दुःखमतो वनम्

द्रुमाः कण्टकिनश्चैव कुशकाशाश्च भामिनि

वने व्याकुलशाखाग्रास्तेन दुःखतरं वनम्

कायक्लेशाश्च बहवो भयानि विविधानि

अरण्यवासे वसतो दुःखमेव ततो वनम्

क्रोधलोभौ विमोक्तव्यौ कर्त्तव्या तपसे मतिः

भेतव्यं भेतव्ये नित्यं दुःखमतो वनम्

तदलं ते वनं गत्वा क्षमं हि वनं तव

विमृशन्निह पश्यामि बहुदोषतरं वनम्

वनं तु नेतुं कृता मतिस्तदा बभूव रामेण यदा महात्मना

तस्य सीता वचनं चकार तत् ततोऽब्रवीद्राममिदं सुदुःखिता