Kanda 2 AYK-013-Dasharadhasya Vaiklabyam

अतदर्हं महाराजं शयानमतथोचितम्

ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम्

अनर्थरूपा सिद्धार्थाह्यभीता भयदर्शिनी

पुनराकारयामास तमेव वरमङ्गना

त्वं कत्थसे महाराज सत्यवादी दृढव्रतः

मम चेमं वरं कस्माद्विधारयितुमिच्छसि

एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा

प्रत्युवाच ततः क्रुद्धो मुहूत्त विह्वलन्निव

मृते मयि गते रामे वनं मनुजपुङ्गवे

हन्तानार्ये ममामित्रे सकामा सुखिनी भव

स्वर्गेपि खलु रामस्य कुशलं दैवतैरहम्

प्रत्यादेशादभिहितं धारयिष्ये कथं बत

कैकेय्याः प्रियकामेन रामः प्रव्राजितो मया

यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति

अपुत्रेण मया पुत्रः श्रमेण महता महान्

रामो लब्धो महाबाहुः कथं त्यज्यते मया

शूरश्च कृतविद्यश्च जितक्रोधः क्षमापरः

कथं कमलपत्राक्षो मया रामो विवास्यते

कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम्

अभिराममहं रामं प्रेषयिष्यामि दण्डकान्

सुखानामुचितस्यैव दुःखैरनुचितस्य

दुःखं नामानुपश्येयं कथं रामस्य धीमतः

यदि दुःखमकृत्वाद्य मम सङ्क्रमणं भवेत्

अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम्

नृशंसे पापसङ्कल्पे रामं सत्यपराक्रमम्

किं विप्रियेण कैकेयि प्रियं योजयसे मम

अकीर्तिरतुला लोके ध्रुवः परिभवश्च मे

तथा विलपतस्तस्य परभ्रमितचेतसः

अस्तमभ्यागमत् सूर्योरजनी चाभ्यवर्त्तत

सा त्रियामा तथार्त्तस्य चन्द्रमण्डलमण्डिता

राज्ञो विलपमानस्य व्यभासत शर्वरी

तथैवोष्णं विनिश्वस्य वृद्धो दशरथो नृपः

विललापार्त्तद्दुःखं गगनासक्तलोचनः

प्रभातं त्वयेच्छामि निशे नक्षत्रभूषणे

क्रियतां मे दया भद्रे मयायं रचितोऽञ्जलिः

अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम्

नृशंसां कैकयीं द्रष्टुं यत्कृते व्यसनं महत्

एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः

प्रसादयामास पुनः कैकेयीं चेदमब्रवीत्

साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः

प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः

शून्ये खलु सुश्रोणि मयेदं समुदाहृतम्

कुरु साधु प्रसादं मे बाले सहृदया ह्यसि

प्रसीद देवि रामो मे त्वद्दत्तं राज्यमव्ययम्

लभतामसितापाङ्गे यशः परमवाप्नुहि

मम रामस्य लोकस्य गुरूणां भरतस्य

प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे

विशुद्धभावस्य हि दुष्टभावा ताम्रेक्षणस्याश्रुकलस्य राज्ञः

श्रुत्वा विचित्रं करुणं विलापं भर्तुर्नृशंसा चकार वाक्यम्

ततः राजा पुनरेव मूर्च्छितः प्रियामदुष्टां प्रतिकूलभाषिणीम्

समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसञ्ज्ञो निपपात दुःखितः

इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विनः

विबोध्यमानः प्रतिबोधनं तदा निवारयामास राजसत्तमः