Kanda 2 AYK-005-Vasista Krutha Vrathadeshaha

सन्दिश्य रामं नृपतिः श्वो भाविन्यभिषेचने

पुरोहितं समाहूय वसिष्ठं चेदमब्रवीत्

गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन

श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम्

तथेति राजानमुक्त्वा वेदविदां वरः

स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम्

उपवासयितुं रामं मन्त्रवन्मन्त्रकोविदः

ब्राह्मं रथवरं युक्तमास्थाय सुदृढव्रतः

रामभवनं प्राप्य पाण्डराभ्रघनप्रभम्

तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः

तमागतमृषिं रामस्त्वनरन्निव ससम्भ्रमः

मानयिष्यन् समानार्हं निश्चक्राम निवेशनात्

अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः

ततोऽवतारयामास परिगृह्य रथात्स्वयम्

चैनं प्रश्रितं दृष्ट्वा सम्भाष्याभिप्रसाद्य

प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः

प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि

उपवासं भवानद्य करोतु सह सीतया

प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः

पिता दशरथः प्रीत्या ययातिं नहुषो यथा

इत्युक्त्वा तदा राममुपवासं यतव्रतम्

मन्त्रवत् कारयामास वैदेह्या सहितं मुनिः

ततो यथावद्रामेण राज्ञो गुरुरर्चितः

अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात्

सुहृद्भिस्तत्र रामोपि सहासीनः प्रियम्वदैः

सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः

हृष्टनारीनरयुतं रामवेश्म तदा बभौ

यथा मत्त द्विजगणं प्रफुल्लनलिनं सरः

राजभवनप्रख्यात्तस्माद्रामनिवेशनात्

निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम्

वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः

बभूवुरभिसम्बाधाः कुतूहलजनैर्वृताः

जनवृन्दोर्मिसङ्घर्षहर्षस्वनवतस्तदा

बभूव राजमार्गस्य सागरस्येव निस्वनः

सिक्तसंमृष्टरथ्या हि तदहर्वनमालिनी

आसीदयोध्यानगरी समुच्छ्रितगृहध्वजा

तदा ह्ययोध्यानिलयः सस्त्रीबालाबलो जनः

रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षदुदयं रवेः

प्रजालङ्कारभूतं जनस्यानन्दवर्द्धनम्

उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम्

एवं तं जनसम्बाधं राजमार्गं पुरोहितः

व्यूहन्निव जनौघं तं शनै राजकुलं ययौ

शुभ्राभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः

समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः

तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः

पप्रच्छ तस्मै तत् कृतमित्यभ्यवेदयत्

तेन चैव तदा तुल्यं सहासीनाः सभासदः

आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम्

गुरुणा त्वभ्यनुज्ञातो मनुजौधं विसृज्य तम्

विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव

तदग्र्यरूपं प्रमदागणाकुलं महेन्द्रवेश्मप्रतिमं निवेशनम्

विदीपयंश्चारु विवेश पार्थिवः शशीव तारागणसङ्कुलं नभः