Kanda 1 BK-074-Parushu Ramaa Gamanam

अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः

आपृष्ट्वा तौ राजानौ जगामोत्तरपर्वतम्

विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम्

आपृष्ट्वाथ जगामाशु राजा दशरथः पुरीम्

गच्छन्तं तं तु राजानमन्वगच्छन्नराधिपः

अथ राजा विदेहानां ददौ कन्याधनं बहु

गवां शतसहस्राणि बहूनि मिथिलेश्वरः

कम्बलानां मुख्यानां क्षौमकोट्यम्बराणि

हस्त्यश्वरथपादातं दिव्यरूपं स्वलङ्कृतम्

ददौ कन्यापिता तासां दासीदासमनुत्तमम्

हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य

ददौ परमसंहृष्टः कन्याधनमनुत्तमम्

दत्त्वा बहुधनं राजा समनुज्ञाप्य पार्थिवम्

प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः

राजाप्ययोध्याधिपतिस्सह पुत्रैर्महात्मभिः

ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः

घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस्ततः

भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम्

तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत

किमिदं हृदयोत्कम्पि मनो मम विषीदति

राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः

उवाच मधुरां वाणीं "श्रूयतामस्य यत्फलम्

उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम्

मृगाः प्रशमयन्त्येते सन्तापस्त्यज्यतामयम्

तेषां संवदतां तत्र वायुः प्रादुर्बभूव

कम्पयन् पृथिवीं सर्वां पातयंश्च द्रुमान् शुभान्

तमसा संवृतः सूर्यः सर्वा प्रबभुर्दिशः

भस्मना चावृतं सर्वं सम्मूढमिव तद्बलम्

वसिष्ठश्चर्षयश्चान्ये राजा ससुतस्तदा

ससञ्ज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम्

तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः

ददर्श भीमसङ्काशं जटामण्डलधारिणम्

भार्गवं जामदग्न्यं तं राजराजविमर्दिनम्

कैलासमिव दुर्द्धर्षं कालाग्निमिव दुस्सहम्

स्कन्धे चासाद्य परशुं धनुर्विद्युद्गणोपमम्

प्रगृह्य शरमुख्यं त्रिपुरघ्नं यथा शिवम्

तं दृष्ट्वा भीमसङ्काशं ज्वलन्तमिव पावकम्

वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः

सङ्गता मुनयः सर्वे सञ्जजल्पुरथो मिथः

कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति

पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः

क्षत्रस्योत्सादनं भूयो खल्वस्य चिकीर्षितम्

एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम्

ऋषयो राम रामेति वचो मधुरमब्रुवन्

प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान्

रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत