Kanda 1 BK-072-Kanya Daanam Godaanam Cha

तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः

उवाच वचनं वीरं वसिष्ठसहितो नृपम्

अचिन्त्यान्यप्रमेयानि कुलानि नरपुङ्गव

इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन

सदृशो धर्मसम्बन्धः सदृशो रूपसम्पदा

रामलक्ष्मणयो राजन् सीता चोर्मिलया सह

वक्तव्यं नरश्रेष्ठ श्रूयतां वचनं मम

अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि

सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे

भरतस्य कुमारस्य शत्रुघ्नस्य धीमतः

वरयामस्सुते राजंस्तयोरर्थे महात्मनोः

पुत्रा दशरथस्येमे रूपयौवनशालिनः

लोकपालोपमाः सर्वे देवतुल्यपराक्रमाः

उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम्

इक्ष्वाकोः कुलमव्यग्रं भवतः पुण्यकर्मणः

विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा

जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुङ्गवौ

कुलं धन्यमिदं मन्ये येषां नो मुनिपुङ्गवौ

सदृशं कुलसम्बन्धं यदाज्ञापयथस्स्वयम्

एवं भवतु भद्रं वः कुशध्वजसुते इमे

पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ

एकाह्ना राजपुत्रीणां चतसॄणां महामुने

पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः

उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः

वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः

एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः

उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत्

परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोः सदा

यथा दशरथस्येयं तथायोध्या पुरी मम

प्रभुत्वे नास्ति सन्देहो यथार्हं कर्तुमर्हथ

तथा ब्रुवति वैदेहे जनके रघुनन्दनः

राजा दशरथो हृष्टः प्रत्युवाच महीपतिम्

युवामसङ्ख्येयगुणौ भ्रातरौ मिथिलेश्वरौ

ऋषयो राजसङ्घाश्च भवद्भ्यामभिपूजिताः

स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वमालयम्

श्राद्धकर्माणि सर्वाणि विधास्यामीति चाब्रवीत्

तमापृष्ट्वा नरपतिं राजा दशरथस्तदा

मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः

गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः

प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम्

गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः

एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः

सुवर्णशृङ्गाः सम्पन्नाः सवत्साः कांस्यदोहनाः

गवां शतसहस्राणि चत्वारि पुरुषर्षभः

वित्तमन्यच्च सुबहुद्विजेभ्यो रघुनन्दनः

ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः

ससुतैः कृतगोदानैर्वृतस्तु नृपतिस्तदा

लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः