Kanda 1 BK-070-Dasharatha Vamsha Varnavam

ततः प्रभाते जनकः कृतकर्मा महर्षिभिः

उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम्

भ्राता मम महातेजा यवीयानतिधार्मिकः

कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम्

वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम्

साङ्काश्यां पुण्यसङ्काशां विमानमिव पुष्पकम्

तमहं द्रष्टुमिच्छामि यज्ञगोप्ता मे मतः

प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह

शासनात्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः

समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा

आज्ञयाथ नरेन्द्रस्य आजगाम कुशध्वजः

ददर्श महात्मानं जनकं धर्मवत्सलम्

सोऽभिवाद्य शतानन्दं राजानं चापि धार्मिकम्

राजार्हं परमं दिव्यमासनं चाध्यरोहत

उपविष्टाबुभौ तौ तु भ्रातरावतितेजसौ

प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम्

गच्छ मन्त्रिपते शीघ्रमैक्ष्वाकममितप्रभम्

आत्मजैः सह दुर्द्धर्षमानयस्व समन्त्रिणम्

औपकार्य्यं गत्वा तु रघूणां कुलवर्द्धनम्

ददर्श शिरसा चैनमभिवाद्येदमब्रवीत्

अयोध्याधिपते वीर वैदेहो मिथिलाधिपः

त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम्

मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तदा

सबन्धुरगमत्तत्र जनको यत्र वर्तते

राजा मन्त्रिसहितः सोपाध्यायः सबान्धवः

वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत्

विदितं ते महाराज इक्ष्वाकुकुलदैवतम्

वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः

विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः

एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम्

तूष्णीम्भूते दशरथे वसिष्ठो भगवानृषिः

उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम्

अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः

तस्मान्मरीचिः सञ्जज्ञे मरीचेः काश्यपः सुतः

विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः

मनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः

तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्

इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विश्रुतः

कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत

विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान्

बाणस्य तु महातेजा अनरण्यः प्रतापवान्

अनरण्यात्पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोः सुतः

त्रिशङ्कोरभवत् पुत्रो धुन्धुमारो महायशाः

यौवनाश्वसुतस्त्वासीन्मान्धाता पृथिवीपतिः

मान्धातुस्तु सुतः श्रीमान् सुसन्धिरुदपद्यत

सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित्

यशस्वी ध्रुवसन्धेस्तु भरतो नाम नामतः

भरतात्तु महातेजा असितो नाम जातवान्

यस्यैते प्रतिराजान उदपद्यन्त शत्रवः

हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः

तांस्तु प्रतियुद्ध्यन् वै युद्धे राजा प्रवासितः

हिमवन्तमुपागम्य भृगुप्रस्रवणेऽवसत्

असितोऽल्पबलो राजा मन्त्रिभिः सहितस्तदा

द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतम्

एका गर्भविनाशाय सपत्न्यै सगरं ददौ

ततः शैलवरं रम्यं बभूवाभिरतो मुनिः

भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः

तत्रैका तु महाभागा भार्गवं देववर्चसम्

ववन्दे पद्मपत्राक्षी काङ्क्षन्तीं सुतमात्मनः

तमृषिं साभ्युपागम्य कालिन्दी चाभ्यवादयत्

तामभ्यवदद्विप्रः पुत्रेप्सुं पुत्रजन्मनि

महावीर्यो महातेजा अचिरात् सञ्जनिष्यति

गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे

च्यवनं तु नमस्कृत्य राजपुत्री पतिव्रता

पतिशोकातुरा तस्मात् पुत्रं देवी व्यजायत

सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया

सह तेन गरेणैव जातः सगरोऽभवत्

सगरस्यासमञ्जस्तु असमञ्जात्तथांशुमान्

दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः

भगीरथात्ककुत्स्थश्च ककुत्स्थस्य रघुस्सुतः

रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः

कल्माषपादो ह्यभवत्तस्माज्जातश्च शङ्खणः

शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः

मरोः प्रशुश्रुकस्त्वासीदम्बरीषः पशुश्रुकात्

अम्बरीषस्य पुत्रोऽभून्नहुषः पृथिवीपतिः

नहुषस्य ययातिश्च नाभागस्तु ययातिजः

नाभागस्य बभूवाज अजाद्दशरथोऽभवत्

अस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ

आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम्

इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम्

रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप

सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि