Kanda 1 BK-063-Vishvamithra Thapobhamgaha

पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम्

अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः

अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः

ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः

तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात्

विश्वामित्रो महातेजा भूयस्तेपे महत्तपः

ततः कालेन महता मेनका परमाप्सराः

पुष्करेषु नरश्रेष्ठस्नातुं समुपचक्रमे

तां ददर्श महातेजा मेनकां कुशिकात्मजः

रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा

दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत्

अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे

अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम्

इत्युक्ता सा वरारोहा तत्र वासमथाकरोत्

तपसो हि महाविघ्नो विश्वामित्रम् उपागतम्

तस्यां वसन्त्यां वर्षाणि पञ्चपञ्च राघव

विश्वामित्राश्रमे राम सुखेन व्यतिचक्रमुः

अथ काले गते तस्मिन् विश्वामित्रो महामुनिः

सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः

बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन

सर्वं सुराणां कर्मैतत्तपोपहरणं महत्

अहोरात्रापदेशेन गताः संवत्सरा दश

काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः

विनिश्वसन् मुनिवरः पश्चात्तापेन दुःखितः

भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम्

मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः

उत्तरं पर्वतं राम विश्वामित्रो जगाम

कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः

कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम्

तस्य वर्षसहस्रं तु घोरं तप उपासतः

उत्तरे पर्वते राम देवतानामभूद्भयम्

आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः

महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः

देवतानां वचः श्रुत्वा सर्वलोकपितामहः

अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्

महर्षे स्वागतं वत्स तपसोग्रेण तोषितः

महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक

ब्रह्मणस्स वचः श्रुत्वा सर्वलोकेश्वरस्य

प्राञ्जलिः प्रणतो भूत्वा सर्वलोकपितामहम्

प्रत्युवाच ततो वाचं विश्वामित्रो महामुनिः

महर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः

यदि मे भगवानाह ततोऽहं विजितेन्द्रियः

तमुवाच ततो ब्रह्मा तावत्त्वं जितेन्द्रियः

यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः

विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः

ऊर्द्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन्

घर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः

शिशिरे सलिलस्थायी रात्र्यहानि तपोधनः

एवं वर्षसहस्रं हि तपो घोरमुपागमत्

तस्मिन् सन्तप्यमाने तु विश्वामित्रे महामुनौ

सम्भ्रमः सुमहानासीत् सुराणां वासवस्य

रम्भामप्सरसं शक्रस्सह सर्वैर्मरुद्गणैः

उवाचात्महितं वाक्यमहितं कौशिकस्य