विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तानृषीन्
अब्रवीन्नरशार्दूलस्सर्वांस्तान् वनवासिनः
महान् विघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम्
दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः
पश्चिमायां विशालायां पुष्करेषु महात्मनः
सुखं तपश्चरिष्यामो वरं तद्धि तपोवनम्
एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः
तप उग्रं दुराधर्षं तेपे मूलफलाशनः
एतस्मिन्नेव काले तु अयोध्याधिपतिर्नृपः
अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे
तस्य वै यजमानस्य पशुमिन्द्रो जहार ह
प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत्
पशुरद्य हृतो राजन् प्रणष्टस्तव दुर्नयात्
अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर
प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ
आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते
उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभ
अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः
देशान् जनपदांस्तांस्तान् नगराणि वनानि च
आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः
स पुत्रसहितं तात सभार्यं रघुनन्दन
भृगुतुन्दे समासीनमृचीकं सन्ददर्श ह
तम् उवाच महातेजाः प्रणंय अभिप्रसाद्य च
ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमितप्रभः
पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः
गवां शतसहस्रेण विक्रीणीषे सुतं यदि
पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव
सर्वे परिसृता देशा याज्ञीयं न लभे पशुम्
दातुमर्हसि मूल्येन सुतमेकमितो मम
एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचः
नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथञ्चन
ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम्
उवाच नरशार्दूलमम्बरीषं तपस्विनी
अविक्रेयं सुतं ज्येष्ठम् भगवान् आह भार्गवः
ममापि दयितं विद्धि कनिष्ठं शुनकं नृप
तस्मात्कनीयसं पुत्रं न दास्ये तव पार्थिव
प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः
मातॄणां च कनीयांसस्तस्माद्रक्षे कनीयसम्
उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च
शुनःशेषः स्वयं राम मध्यमो वाक्यमब्रवीत्
पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम्
विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयस्व माम्
गवां शतसहस्रेण शुनःशेपं नरेश्वरः
हिरण्यस्य सुवर्णस्य कोटिभी रत्नराशिभिः
गृहीत्वा परमप्रीतो जगाम रघुनन्दन
अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः
शुनःशेपं महातेजा जगामाशुमहायशाः