Kanda 1 BK-059-Vasista Putranam Shapa Prapthi

उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः

अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालरूपिणम्

ऐक्ष्वाक स्वागतं वत्स जानामि त्वां सुधार्मिकम्

शरणं ते भविष्यामि मा भैषीर्नृपपुङ्गव

अहमामन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः

यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः

गुरुशापकृतं रूपं यदिदं त्वयि वर्तते

अनेन सह रूपेण सशरीरो गमिष्यसि

हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप

यस्त्वं कौशिकमागम्य शरण्यं शरणागतः

एवम् उक्त्वा महातेजाः पुत्रान् परमधार्मिकान्

व्यादिदेश महाप्राज्ञान् यज्ञसम्भारकारणात्

सर्वान् शिष्यान् समाहूय वाक्यमेतदुवाच

सर्वानृषिगणान् वत्सा आनयध्वं ममाज्ञया

सशिष्यसुहृदश्चैव सर्त्विजः सबहुश्रुतान्

यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः

तत्सर्वमखिलेनोक्तं ममाख्येयमनादृतम्

तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया

आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः

ते शिष्याः समागम्य मुनिं ज्वलिततेजसम्

ऊचुश्च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम्

श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः

सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम्

वासिष्ठं तच्छतं सर्वं क्रोधपर्याकुलाक्षरम्

यदाह वचनं सर्वं शृणु त्वं मुनिपुङ्गव

क्षत्रियो याजको यस्य चण्डालस्य विशेषतः

कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः

ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम्

कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः

एतद्वचननैष्ठुर्यमूचुः संरक्तलोचनाः

वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः

तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुङ्गवः

क्रोधसंरक्तनयनः सरोषमिदमब्रवीत्

ये दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम्

भस्मीभूता दुरात्मानो भविष्यन्ति संशयः

अद्य ते कालपाशेन नीता वैवस्वतक्षयम्

सप्तजातिशतान्येव मृतपाः सन्तु सर्वशः

श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः

विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान्

महोदयश्चदुर्बुद्धिर्मामदूष्यं ह्यदूषयत्

दूषितः सर्वलोकेषु निषादत्वं गमिष्यति

प्राणातिपातनिरतो निरनुक्रोशतां गतः

दीर्घकालं मम क्रोधाद्दुर्गतिं वर्तयिष्यति

एतावदुक्त्वा वचनं विश्वामित्रो महातपाः

विरराम महातेजा ऋषिमध्ये महामुनिः