Kanda 1 BK-058-Thrishanku Shapaha

ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम्

ऋषिपुत्रशतं राम राजानमिदमब्रवीत्

प्रत्याख्यातो हि दुर्बुद्धे गुरुणा सत्यवादिना

तं कथं समतिक्रम्य शाखान्तरमुपेयिवान्

इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमो गुरुः

चातिक्रमितुं शक्यं वचनं सत्यवादिनः

अशक्यमिति चोवाच वसिष्ठो भगवानृषिः

तं वयं वै समाहर्तुं क्रतुं शक्ताः कथं तव

बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः

याजने भगवान् शक्तस्त्रैलोक्यस्यापि पार्थिव

अवमानं तत्कर्तुं तस्य शक्ष्यामहे कथम्

तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम्

राजा पुनरेवैतानिदं वचनमब्रवीत्

प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव

अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः

ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम्

शेपुः परमसङ्क्रुद्धाश्चण्डालत्वं गमिष्यसि

एवमुक्त्वा महात्मानो विविशुस्ते स्वमाश्रमम्

अथ रात्र्यां व्यतीतायां राजा चण्डालताङ् गतः

नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्द्धजः

चित्यमाल्यानुलेपश्च आयसाभरणोऽभवत्

तं दृष्ट्वा मन्त्रिणः सर्वे त्यज्य चण्डालरूपिणम्

प्राद्रवन् सहिता राम पौरा येऽस्यानुगामिनः

एको हि राजा काकुत्स्थ जगाम परमात्मवान्

दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम्

विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम्

चण्डालरूपिणं राम मुनिः कारुण्यमागतः

कारुण्यात् महातेजा वाक्यं परमधार्मिकः

इदं जगाद भद्रं ते राजानं घोररूपिणम्

किमागमनकार्यं ते राजपुत्र महाबल

अयोध्याधिपते वीर शापाच्चण्डालतां गतः

अथ तद्वाक्यमाज्ञाय राजा चण्डालतां गतः

अब्रवीत्प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम्

प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव

अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः

सशरीरो दिवं यायामिति मे सौम्य दर्शनम्

मया चेष्टं क्रतुशतं तच्च नावाप्यते फलम्

अनृतं नोक्तपूर्वं मे वक्ष्ये कदाचन

कृच्छ्रेष्वपि गतः सौम्य क्षत्रधर्मेण ते शपे

यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताः

गुरवश्च महात्मानः शीलवृत्तेन तोषिताः

धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः

परितोषं गच्छन्ति गुरवो मुनिपुङ्गव

दैवमेव परं मन्ये पौरुषं तु निरर्थकम्

दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः

तस्य मे परमार्तस्य प्रसादमभिकाङ्क्षतः

कर्तुमर्हसि भद्रं ते दैवोपहतकर्मणः

नान्यां गतिं गमिष्यामि नान्यः शरणमस्ति मे

दैवं पुरुषकारेण निवर्तयितुमर्हसि