Kanda 1 BK-057-Thrishamkoryajana Pradhana

ततः सन्तप्तहृदयः स्मरन् निग्रहमात्मनः

विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना

दक्षिणां दिशं गत्वा महिष्या सह राघव

तताप परमं घोरं विश्वामित्रो महत्तपः

फलमूलाशनो दान्तैश् चचार महत्तपः

अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः

हविष्यन्दो मधुष्यन्दो दृढनेत्रो महारथः

पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः

अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्

जिता राजर्षिलोकास्ते तपसा कुशिकात्मज

अनेन तपसा त्वां तु राजर्षिरिति विद्महे

एवमुक्त्वा महातेजा जगाम सह दैवतैः

त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः

विश्वामित्रोपि तच्छ्रुत्वा ह्रिया किञ्चिदवाङ्मुखः

दुःखेन महताविष्टः समन्युरिदमब्रवीत्

तपश्च सुमहत्तप्तं राजर्षिरिति मां विदुः

देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपःफलम्

एवं निश्चित्य मनसा भूय एव महातपाः

तपश्चकार काकुत्स्थ परमं परमात्मवान्

एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः

त्रिशङ्कुरिति विख्यात इक्ष्वाकुकुलवर्द्धनः

तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव

गच्छेयं सशरीरेण देवानां परमां गतिम्

वसिष्ठं समाहूय कथयामास चिन्तितम्

अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना

प्रत्याख्यातो वसिष्ठेन ययौ दक्षिणां दिशम्

ततस्तत्कर्मसिद्ध्यर्थं पुत्रांस्तस्य गतो नृपः

वासिष्ठा दीर्घतपसस् तपो यत्र हि तेपिरे

त्रिशङ्कुः सुमहातेजाः शतं परमभास्वरम्

वसिष्ठपुत्रान् ददृशे तप्यमानान् यशस्विनः

सोऽभिगम्य महात्मानः सर्वान् एव गुरोः सुतान्

अभिवाद्यानुपूर्व्येण ह्रिया किञ्चिदवाङ्मुखः

अब्रवीत्सुमहात्मानः सर्वानेव कृताञ्जलिः

शरणं वः प्रपद्येऽहं शरण्यान् शरणागतः

प्रत्याख्यातोऽस्मि भद्रं वो वसिष्ठेन महात्मना

यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ

गुरुपुत्रानहं सर्वान्नमस्कृत्य प्रसादये

शिरसा प्रणतो याचे ब्राह्मणान् तपसि स्थितान्

ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः

सशरीरो यथाहं हि देवलोकमवाप्नुयाम्

प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः

गुरुपुत्रानृते सर्वान्नाहं पश्यामि काञ्चन

इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः

तस्मादनन्तरं सर्वे भवन्तो दैवतं मम