Kanda 1 BK-056-Vasista Vishvamitra Sangarshaha

एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः

आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत्

ब्रह्मदण्डं समुत्क्षिप्य कालदण्डमिवापरम्

वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत्

क्षत्रबन्धो स्थितोऽस्म्येष यद्वलं तद्विदर्शय

नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज

क्व ते क्षत्रियबलं क्व ब्रह्मबलं महत्

पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन

तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुद्यतम्

ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा

वारुणं चैव रौद्रं ऐन्द्रं पाशुपतं तथा

ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दनः

मानवं मोहनं चैव गान्धर्वं स्वापनं तथा

जृम्भणं मादनं चैव सन्तापनविलापने

शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम्

ब्रह्मपाशं कालपाशं वारुणं पाशमेव

पैनाकास्त्रं दयितं शुष्कार्द्रे अशनी उभे

दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव

धर्मचक्रं कालचक्रं विष्णुचक्रं तथैवव

वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा

शक्तिद्वयं चिक्षेप कङ्कालं मुसलं तथा

वैद्याधरं महास्त्रं कालास्त्रमथ दारुणम्

त्रिशूलमस्त्रं घोरं कापालमथ कङ्कणम्

एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन

वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत्

तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः

तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः

तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः

देवर्षयश्च सम्भ्रान्ता गन्धर्वाः समहोरगाः

त्रैलोक्यमासीत् सन्त्रस्तं ब्रह्मास्त्रे समुदीरिते

तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा

वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव

ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः

त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदारुणम्

रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः

मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः

प्राज्वलद् ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः

विधूम इव कालाग्निर्यमदण्ड इवापरः

ततोऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम्

अमोघं ते बलं ब्रह्मन् तेजो धारय तेजसा

निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महातपाः

प्रसीद जपातां श्रेष्ठ लोकाः सन्तु गतव्यथाः

एवमुक्तो महातेजाः शमं चक्रे महातपाः

विश्वामित्रोऽपि निकृतो विनिःश्वस्येदमब्रवीत्

धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्

एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे

तदेतत् समवेक्ष्याहं प्रसन्नेन्द्रियमानसः

तपो महत् समास्थास्ये यद्वै ब्रह्मत्वकारणम्