Kanda 1 BK-054-Shabala Paharanam

कामधेनुं वसिष्ठोऽपि यदा त्यजते मुनिः

तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत

नीयमाना तु शबला राम राज्ञा महात्मना

दुःखिता चिन्तयामास रुदन्ती शोककर्शिता

परित्यक्ता वसिष्ठेन किमहं सुमहात्मना

याऽहं राजभटैर्दीना ह्रियेयं भृशदुःखिता

किं मयाऽपकृतं तस्य महर्षेर्भावितात्मनः

यन्मामनागसं भक्तामिष्टां त्यजति धार्मिकः

इति सञ्चिन्तयित्वा तु निःश्वस्य पुनः पुनः

जगाम वेगेन तदा वसिष्ठम् परमौजसम्

निर्द्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन

जगामानिलवेगेन पादमूलं महात्मनः

शबला सा रुदन्ती क्रोशन्ती चेदमब्रवीत्

वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी

भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत

यस्माद्राजभृता मां हि नयन्ते त्वत्सकाशतः

एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत्

शोकसन्तप्तहृदयां स्वसारमिव दुःखिताम्

त्वां त्यजामि शबले नापिमेऽपकृतं त्वया

एष त्वां नयते राजा बलान्मत्तो महाबलः

हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः

बली राजा क्षत्रियश्च पृथिव्याः पतिरेव

इयमक्षौहिणी पूर्णा सवाजिरथसङ्कुला

हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः

एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत्

वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम्

बलं क्षत्रियस्याहुर्ब्राह्मणो बलवत्तरः

ब्रह्मन् ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम्

अप्रमेयबलं तुभ्यं त्वया बलवत्तरः

विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम्

नियुङ्क्ष्व मां महातेजस्त्वद्ब्रह्मबलसम्भृताम्

तस्य दर्पबलं यत्तन्नाशयामि दुरात्मनः

इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः

सृजस्वेति तदोवाच बलं परबलारुजम्

तस्य तद्वचनं श्रुत्वा सुरभिः सासृजत्तदा

तस्या हुम्भारवोत्सृष्टाः पप्लवाः शतशो नृप

नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः

राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः

पप्लवान् नाशयामास शस्त्रैरुच्चावचैरपि

विश्वामित्रार्दितान् दृष्ट्वा पप्लवान् शतशस्तदा

भूय एवासृजत्कोपाच्छकान् यवनमिश्रितान्

तैरासीत्संवृता भूमिः शकैर्यवनमिश्रितैः

प्रभावद्भिर्महावीर्यैर्हेमकिञ्जल्कसन्निभैः

दीर्घासिपट्टिशधरैर्हेमवर्णाम्बरावृतैः

निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः

ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच

तैस्तैर्यवनकाम्भोजाः पप्लवाश्चाकुलीकृताः