Kanda 1 BK-049- Ahalya Shapa Vimochanam

अफलस्तु ततः शक्रो देवानग्निपुरोधसः

अब्रवीत् त्रस्तवदनः सर्षिसङ्घान् सचारणान्

कुर्वता तपसो विघ्नं गौतमस्य महात्मनः

क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम्

अफलोऽस्मि कृतस्तेन क्रोधात् सा निराकृता

शापमोक्षेण महता तपोऽस्यापहृतं मया

तस्मात्सुरवराः सर्वे सर्षिसङ्घाः सचारणाः

सुरसाह्यकरं सर्वे सफलं कर्तुमर्हथ

शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः

पितृदेवानुपेत्याहुः सर्वे सह मरुद्गणैः

अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः

मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छथ

अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति

भवतां हर्षणार्थे ये दास्यन्ति मानवाः

अक्षयम् हि फलन् तेषाम् यूयम् दास्यथ पुष्कलम्

अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः

उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन्

तदाप्रभृति काकुत्स्थ पितृदेवाः समागताः

अफलान् भुञ्जते मेषान् फलैस्तेषामयोजयन्

इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव

गौतमस्य प्रभावेन तपसश्च महात्मनः

तदागच्छ महातेज आश्रमं पुण्यकर्मणः

तारयैनां महाभागामहल्यां देवरूपिणीम्

विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः

विश्वामित्रं पुरस्कृत्य तमाश्रममथाविशत्

ददर्श महाभागां तपसा द्योतितप्रभाम्

लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः

प्रयत्नान् निर्मिताम् धात्रा दिव्याम् मायामयीम् इव

धूमेनाभिपरीताङ्गीन् दीप्ताम् अग्निशिखाम् इव

सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव

मध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव

सा हि गौतम वाक्येन दुर्निरीक्ष्या बभूव

त्रयाणामपि लोकानां यावद्रामस्य दर्शनम्

शापस्यान्तमुपागम्य तेषां दर्शनमागता

राघवौ त्वतिथी तस्याः पादौ जगृहतुस्तदा

स्मरन्ती गौतमवचः प्रतिजग्राह सा तौ

पाद्यमर्घ्यं तथा ऽऽतिथ्यं चकार सुसमाहिता

प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा

पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिः निःस्वनैः

गन्धर्वाप्सरसां चापि महानासीत्समागमः

साधु साध्विति देवास्तामहल्यां समपूजयन्

तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम्

गौतमो हि महातेजा अहल्यासहितः सुखी

रामं सम्पूज्य विधिवत् तपस्तेपे महातपाः

रामोऽपि परमां पूजां गौतमस्य महामुनेः

सकाशाद्विधिवत् प्राप्य जगाम मिथिलां ततः