Kanda 1 BK-044-Sagara Puthranam Swarga Prapthi

गत्वा सागरं राजा गङ्गयानुगतस्तदा

प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः

भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै

सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत्

तारिता नरशार्दूल दिवं याताश्च देववत्

षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः

सागरस्य जलं लोके यावत् स्थास्यति पार्थिव

सगरस्यात्मजा स्तावत् स्वर्गे स्थास्यन्ति देववत्

इयं हि दुहिता ज्येष्ठा तव गङ्गा भविष्यति

त्वत्कृतेन नाम्नाथ लोके स्थास्यति विश्रुता

गङ्गा त्रिपथगा राजन् दिव्या भागीरथीति

त्रीन् पथो भावयन्तीति ततस्त्रिपथगा स्मृता

पितामहानां सर्वेषां त्वमत्र मनुजाधिप

कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय

पूर्वकेण हि ते राजंस्तेनातियशसा तदा

धर्मिणां प्रवरेणापि नैष प्राप्तो मनोरथः

तथैवांशुमता तात लोकेऽप्रतिमतेजसा

गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता

राजर्षिणा गुणवता महर्षिसमतेजसा

मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन

दिलीपेन महाभाग तव पित्रातितेजसा

पुनर्न शङ्किता नेतुं गङ्गां प्रार्थयतानघ

सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ

प्राप्तोऽसि परमं लोके यशः परमसम्मतम्

यच्च गङ्गावतरणं त्वया कृतमरिन्दम

अनेन भवान् प्राप्तो धर्मस्यायतनं महत्

प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते

सलिले पुरुषव्याघ्र शुचिः पुण्यफलो भव

पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम्

स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप

इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः

यथागतं तथागच्छद्देवलोकं महायशाः

भगीरथोऽपि राजर्षिः कृत्वा सलिलमुत्तमम्

यथाक्रमं यथान्यायं सागराणां महायशाः

कृतोदकः शुची राजा स्वपुरं प्रविवेश

समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास

प्रमुमोद लोकस्तं नृपमासाद्य राघव

नष्टशोकः समृद्धार्थो बभूव विगतज्वरः

एष ते राम गङ्गाया विस्तरोऽभिहितो मया

स्वस्ति प्राप्नुहि भद्रं ते सन्ध्याकालोऽतिवर्तते

यः श्रावयति विप्रेषु क्षत्रियेष्िवतरेषु

प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि

यः शृणोति काकुत्स्थ सर्वान् कामानवाप्नुयात्

सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्द्धते