Kanda 1 BK-042-Bhagiratha Yathnaha

कालधर्मं गते राम सगरे प्रकृतीजनाः

राजानं रोचयामासुरंशुमन्तं सुधार्मिकम्

राजा सुमहानसीदंशुमान् रघुनन्दन

तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः

तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन

हिमवच्छिखरे पुण्ये तपस्तेपे सुदारुणम्

द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशाः

तपोवनं गतो राम स्वर्गं लेभे तपोधनः

दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम्

दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत

कथं गङ्गावतरणं कथं तेषां जलक्रिया

तारयेयं कथं चैनानिति चिन्तापरोऽभवत्

तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः

पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः

दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान्

त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत्

अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति

व्याधिना नरशार्दूल कालधर्ममुपेयिवान्

इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा

राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः

भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन

अनपत्यो महातेजाः प्रजाकामः चाप्रजः

मन्त्रिष्वाधाय तद्राज्यं गङ्गावतरणे रतः

तपो दीर्घमातिष्ठद्गोकर्णे रघुनन्दन

ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः

तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः

अतीतानि महाबाहो तस्य राज्ञो महात्मनः

सुप्रीतो भगवान् ब्रह्मा प्रजानां पतिरीश्वरः

ततः सुरगुणैः सार्द्धमुपागम्य पितामहः

भगीरथं महात्मानं तप्यमानमथाब्रवीत्

भगीरथ महाभाग प्रीतस्तेऽहं जनेश्वर

तपसा सुतप्तेन वरं वरय सुव्रत

तमुवाच महातेजाः सर्वलोकपितामहम्

भगीरथो महाभागः कृताञ्जलिरुपस्थितः

यदि मे भगवन् प्रीतो यद्यस्ति तपसः फलम्

सगरस्यात्मजाः सर्वे मत्तस्सलिलमाप्नुयुः

गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम्

स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः

देया सन्ततिर्देव नावसीदेत्कुलं नः

इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः

उक्तवाक्यं तु राजानं सर्वलोकपितामहः

प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम्

मनोरथो महानेष भगीरथ महारथ

एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्द्धन

इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता

तां वै धारयितुं शक्तो हरस्तत्र नियुज्यताम्

गङ्गायाः पतनं राजन् पृथिवी सहिष्यति

तां वै धारयितुं वीर नान्यं पश्यामि शूलिनः

तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत्

जगाम त्रिदिवं देवस्सह देवैर्मरुद्गणैः