Kanda 1 BK-040-Sagara Putra Vinashaha

देवतानां वचः श्रुत्वा भगवान् वै पितामहः

प्रत्युवाच सुसन्त्रस्तान् कृतान्तबलमोहितान्

महिषी माधवस्यैषा एव भगवान् प्रभुः

कापिलं रूपमास्थाय धारयत्यनिशं धराम्

तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः

पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः

सगरस्य पुत्राणां विनाशोऽदीर्घजीविनाम्

पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिन्दम

देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम्

सगरस्य पुत्राणां प्रादुरासीन्महात्मनाम्

पृथिव्यां भिद्यमानायां निर्घातसमनिःस्वनः

ततो भित्त्वा महीं सर्वे कृत्वा चापि प्रदक्षिणम्

सहिताः सागराः सर्वे पितरं वाक्यमब्रुवन्

परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः

देवदानवरक्षांसि पिशाचोरगकिन्नराः

पश्यामहेऽश्वं तमश्वहर्तारमेव

किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम्

तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः

समन्युरब्रवीद्वाक्यं सगरो रघुनन्दन

भूयः खनत भद्रं वो निर्भिद्य वसुधातलम्

अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तथ

पितुर्वचनमासाद्य सगरस्य महात्मनः

षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन्

खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम्

दिशागजं विरूपाक्षं धारयन्तं महीतलम्

सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन

शिरसा धारयामास विरूपाक्षो महागजः

यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः

खेदाच्चालयते शीर्षं भूमिकम्पस्तदा भवेत्

तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम्

मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम्

ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः

दक्षिणस्यामपि दिशि ददृशुस्ते महागजम्

महापद्मं महात्मानं सुमहत्पर्वतोपमम्

शिरसा धारयन्तं ते विस्मयं जग्मुरुत्तमम्

ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः

षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम्

पश्चिमायामपि दिशि महान्तमचलोपमम्

दिशागजं सौमनसं ददृशुस्ते महाबलाः

तं ते प्रदक्षिणं कृत्वा पृष्ट्वाचापि निरामयम्

खनन्तः समुपक्रान्ता दिशं हैमवतीं ततः

उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डरम्

भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम्

समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम्

षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम्

ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम्

रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजाः

ते तु सर्वे महात्मानो भीमवेगा महाबलाः

ददृशुः कपिलं तत्र वासुदेवं सनातनम्

हयं तस्य देवस्य चरन्तमविदूरतः

प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनन्दन

खनित्रलाङ्गलधरा नानावृक्षशिलाधराः

अभ्यधावन्त सङ्क्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन्

अस्माकं त्वं हि तुरगं यज्ञीयं हृतवानसि

दुर्मेधस्त्वं हि सम्प्राप्तान् विद्धि नः सगरात्मजान्

श्रुत्वा तु वचनं तेषां कपिलो रघुनन्दन

रोषेण महताऽऽविष्टो हुङ्कारमकरोत्तदा

ततस्तेनाप्रमेयेन कपिलेन महात्मना

भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः