Kanda 1 BK-039-Sagara Ashvamedhaha

विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दनः

उवाच परमप्रीतो मुनिं दीप्तमिवानलम्

श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम्

पूर्वको मे कथं ब्रह्मन् यज्ञं वै समुपाहरत्

तस्य तद् वचनं श्रुत्वा कौतूहलसमन्वितः

विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव

श्रूयतां विस्तरो राम सगरस्य महात्मनः

शङ्करश्वशुरो नाम हिमवानचलोत्तमः

विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम्

तयोर्मध्ये प्रवृत्तोऽभूद्यज्ञः पुरुषोत्तम

हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि

तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः

अंशुमानकरोत्तात सगरस्य मते स्थितः

तस्य पर्वणि तं यज्ञं यजमानस्य वासवः

राक्षसीं तनुमास्थाय यज्ञीयाश्वमपाहरत्

ह्रियमाणो तु काकुत्स्थ तस्मिन्नश्वे महात्मनः

उपाध्यायगणाः सर्वे यजमानमथाब्रुवन्

अयं पर्वणि वेगेन यज्ञीयाश्वोऽपनीयते

हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम्

यज्ञच्छिद्रं भवत्येतत्सर्वेषामशिवाय नः

तत्तथा क्रियतां राजन् यथाऽच्छिद्रः क्रतुर्भवेत्

उपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः

षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच

गतिं पुत्रा पश्यामि रक्षसां पुरुषर्षभाः

मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः

तद्गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः

समुद्रमालिनीं सर्वां पृथिवीमनुगच्छत

एकैकं योजनं पुत्रा विस्तारमभिगच्छत

यावत्तुरगसन्दर्शस्तावत् खनत मेदिनीम्

तं चैव हयहर्तारं मार्गमाणा ममाज्ञया

दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्यहम्

इह स्थास्यामि भद्रं वो यावत्तुरगदर्शनम्

इत्युक्ता हृष्टमनसो राजपुत्रा महाबलाः

जग्मुर्मुहीतलं राम पितुर्वचनयन्त्रिताः

योजनायामविस्तारमेकैको धरणीतलम्

बिभिदुः पुरुषव्याघ्र वज्रस्पर्शसमैर्नखैः

शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः

भिद्यमाना वसुमती ननाद रघुनन्दन

नागानां वध्यमानानामसुराणां राघव

राक्षसानां दुर्द्धर्षः सत्त्वानां निनदोऽभवत्

योजनानां सहस्राणि षष्टिं तु रघुनन्दन

बिभिदुर्धरणीं वीरा रसातलमनुत्तमम्

एवं पर्वतसम्बाधं जम्बूद्वीपं नृपात्मजाः

खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः

ततो देवाः सगन्धर्वाः सासुरास्सहपन्नगाः

सम्भ्रान्तमनसः सर्वे पितामहमुपागमन्

ते प्रसाद्य महात्मानं विषण्णवदनास्तदा

ऊचुः परमसन्त्रस्ताः पितामहमिदं वचः

भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः

बहवश्च महात्मानो हन्यन्ते तलवासिनः

अयं यज्ञहरोऽस्माकमनेनाश्वोऽपनीयते

इति ते सर्वभूतानि निघ्नन्ति सगरात्मजाः