Kanda 1 BK-035-Gangothpathi Varnavam

उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः

निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत

सुप्रभाता निशा राम पूर्वा सन्ध्या प्रवर्तते

उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय

तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम्

गमनं रोचयामास वाक्यं चेदमुवाच

अयं शोणः शुभजलो गाधः पुलिनमण्डितः

कतरेण पथा ब्रह्मन् सन्तरिष्यामहे वयम्

एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम्

एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः

एवमुक्ता महर्षयो विश्वामित्रेण धीमता

पश्यन्तस्ते प्रयाता वै वनानि विविधानि

ते गत्वा दूरमध्वानं गतेऽर्द्धदिवसे तदा

जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम्

तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम्

बभूवुर्मुनयः सर्वे मुदिताः सहराघवाः

तस्यास्तीरे ततश्चक्रुस्त आवासपरिग्रहम्

ततः स्नात्वा यथान्यायं सन्तर्प्य पितृदेवताः

हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः

विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाः

विश्वामित्रं महात्मानं परिवार्य समन्ततः

अथ तत्र तदा रामो विश्वामित्रमथाब्रवीत्

भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम्

त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम्

चोदितो रामवाक्येन विश्वामित्रो महामुनिः

वृद्धिं जन्म गङ्गाया वक्तुमेवोपचक्रमे

शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान्

तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि

नाम्ना मनोरमा नाम पत्नी हिमवतः प्रिया

तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता

उमा नाम द्वितीयाभून्नाम्ना तस्यैव राघव

अथ ज्येष्ठां सुराः सर्वे देवतार्थचिकीर्षया

शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम्

ददौ धर्मेण हिमवांस्तनयां लोकपावनीम्

स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया

प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकारिणः

गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना

या चान्या शैलदुहिता कन्याऽऽसीद्रघुनन्दन

उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना

उग्रेण तपसा युक्तां ददौ शैलवरः सुताम्

रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम्

एते ते शैलराजस्य सुते लोकनमस्कृते

गङ्गा सरितां श्रेष्ठा उमा देवी राघव

एतत्ते सर्वमाख्यातं यथा त्रिपथगा नदी

खं गता प्रथमं तात गतिं गतिमतां वर

सैषा सुरनदी रम्या शैलेन्द्रस्य सुता तदा

सुरलोकं समारूढा विपापा जलवाहिनी