Kanda 1 BK-031-Mithila Prasthanam

अथ तां रजनीं तत्र कृतार्थौ रामलक्ष्मणौ

ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना

प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ

विश्वामित्रं मुनींश्चान्यान् सहितावभिजग्मतुः

अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम्

ऊचतुर्मधुरोदारं वाक्यं मधुरभाषिणौ

इमौ स्म मुनिशार्दूल किङ्करौ समुपस्थितौ

आज्ञापय यथेष्टं वै शासनं करवाव किम्

एवमुक्तास्ततस्ताभ्यां सर्व एव महर्षयः

विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन्

मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति

यज्ञः परमधर्मिष्ठस्तस्य यास्यामहे वयम्

त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि

अद्भुतं धनुरत्नं तत्र तद्द्रष्टुमर्हसि

तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः

अप्रमेयबलं घोरं मखे परमभास्वरम्

नास्य देवा गन्धर्वा नासुरा राक्षसाः

कर्तुमारोपणं शक्ता कथञ्चन मानुषाः

धनुषस्तस्य वीर्यं तु जिज्ञासन्तो महीक्षितः

शेकुरारोपयितुं राजपुत्रा महाबलाः

तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः

तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम्

तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः

याचितं नरशार्दूल सुनाभं सर्वदैवतैः

आयागभूतं नृपतेस्तस्य वेश्मनि राघव

अर्चितं विविधैर्गन्धैर्माल्यैश्चागरुगन्धिभिः

एवमुक्त्वा मुनिवरः प्रस्थानमकरोत्तदा

सर्षिसङ्घः सकाकुत्स्थ आमन्त्र्य वनदेवताः

स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम्

उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम्

प्रदक्षिणं ततः कृत्वा सिद्धाश्रममनुत्तमम्

उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे

तं प्रयान्तं मुनिवरमन्वयादनुसारिणम्

शकटीशतमात्रं प्रायेण ब्रह्मवादिनाम्

मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः

अनुजग्मुर्महात्मानं विश्वामित्रं महामुनिम्

निवर्तयामास ततः पक्षिसङ्घान् मृगानपि

ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे

वासं चक्रुर्मुनिवराः शोणाकूले समागताः

तेऽस्तङ्गते दिनकरे स्नात्वा हुतहुताशनाः

विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः

रामोऽपि सह सौमित्रिर्मुनींस्तानभिपूज्य

अग्रतो निषसादाथ विश्वामित्रस्य धीमतः

अथ रामो महातेजा विश्वामित्रं महामुनिम्

पप्रच्छ नरशार्दूलः कौतूहलसमन्वितः

भगवन् कस्य देशोऽयं समृद्धवनशोभितः

श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः

चोदितो रामवाक्येन कथयामास सुव्रतः

तस्य देशस्य निखिलमृषिमध्ये महातपाः