Kanda 1 BK-029-Sidhdha Shrama Gamanam

अथ तस्याप्रमेयस्य तद्वनं परिपृच्छतः

विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे

वर्षाणि सुबहून्येव तथा युगशतानि

तपश्चरणयोगार्थमुवास सुमहातपाः

एष पूर्वाश्रमो राम वामनस्य महात्मनः

सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः

निर्जित्य दैवतगणान् सेन्द्रांश्च समरुद्गणान्

कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः

बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः

समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे

बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम्

असमाप्ते क्रतौ तस्मिन् स्वकार्यमभिपद्यताम्

ये चैनमभिवर्तन्ते याचितार इतस्ततः

यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति

त्वं सुरहितार्थाय मायायोगमुपागतः

वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम्

एतस्मिन्नन्तरे राम कश्यपोऽग्निसमप्रभः

अदित्या सहितो राम दीप्यमान इवौजसा

देवीसहायो भगवान् दिव्यं वर्षसहस्रकम्

व्रतं समाप्य वरदं तुष्टाव मधुसूदनम्

तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम्

तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम्

शरीरे तव पश्यामि जगत्सर्वमिदं प्रभो

त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः

तमुवाच हरिः प्रीतः कश्यपं धूतकल्मषम्

वरं वरय भद्रं ते वरार्होऽसि मतो मम

तच्छ्रुत्वा वचनं तस्य मारीचः कश्यपोऽब्रवीत्

अदित्या देवतानां मम चैवानुयाचतः

वरं वरद सुप्रीतो दातुमर्हसि सुव्रत

भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन

शोकार्त्तानां तु देवानां साहाय्यं कर्तुमर्हसि

अयं सिद्धाश्रमो नाम प्रसादात्ते भविष्यति

सिद्धे कर्म्मणि देवेश उत्तिष्ठ भगवन्नितः

अथ विष्णुर्महातेजा अदित्यां समजायत

वामनं रूपमास्थाय वैरोचनिमुपागमत्

त्रीन् क्रमानथ भिक्षित्वा प्रतिगृह्य मानदः

आक्रम्य लोकाँल्लोकात्मा सर्वलोकहिते रतः

महेन्द्राय पुनः प्रादान्नियम्य बलिमोजसा

त्रैलोक्यं महातेजाश्चक्रे शक्रवशं पुनः

तेनैव पूर्वमाक्रान्त आश्रमः श्रमनाशनः

मया तु भक्त्या तस्यैष वामनस्योपभुज्यते

एतमाश्रममायान्ति राक्षसा विघ्नकारिणः

अत्रैव पुरुषव्याघ्र हन्तव्या दुष्टचारिणः

अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम्

तदाश्रमपदं तात तवाप्येतद्यथा मम

प्रविशन्नाश्रमपदं व्यरोचत महामुनिः

शशीव गतनीहारः पुनर्वसुसमन्वितः

तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः

उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन्

यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते

तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम्

मुहूर्तमिव विश्रान्तौ राजपुत्रावरिन्दमौ

प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ

अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुङ्गव

सिद्धाश्रमोऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव

एवमुक्तो महातेजा विश्वामित्रो महामुनिः

प्रविवेश ततो दीक्षां नियतो नियतेन्द्रियः

कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ

प्रभातकाले चोत्थाय पूर्वां सन्ध्यामुपास्य

स्पृष्टोदकौ शुची जप्यं समाप्य नियमेन

हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम्