Kanda 1 BK-026-Thaatakaavadhaha

मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः

राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः

पितुर्वचननिर्देशात्पितुर्वचनगौरवात्

वचनं कौशिकस्येति कर्तव्यमविशङ्कया

अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना

पित्रा दशरथेनाहं नावज्ञेयं तद्वचः

सोऽहं पितुर्वचः श्रुत्वा शासनाद्ब्रह्मवादिनः

करिष्यामि सन्देहस्ताटकावधमुत्तमम्

गोब्राह्मणहितार्थाय देशस्यास्य सुखाय

तव चैवाप्रमेयस्य वचनं कर्त्तुमुद्यतः

एवमुक्त्वा धनुर्मध्ये बध्वा मुष्टिमरिन्दमः

ज्याघोषमकरोत्तीव्रं दिशः शब्देन नादयन्

तेन शब्देन वित्रस्तास्ताटकावनवासिनः

ताटका सुसङ्क्रुद्धा तेन शब्देन मोहिता

तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्च्छिता

श्रुत्वा चाभ्यद्रवद्वेगाद्यतः शब्दो विनिस्सृतः

तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम्

प्रमाणेनातिवृद्धां लक्ष्मणं सोऽभ्यभाषत

पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः

भिद्येरन् दर्शनादस्या भीरूणां हृदयानि

एनां पश्य दुराधर्षां मायाबलसमन्विताम्

विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम्

ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम्

वीर्यं चास्या गतिं चापि हनिष्यामीति मे मतिः

एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्च्छिता

उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत

विश्वामित्रस्तु ब्रह्मर्षिर्हुङ्कारेणाभिभर्त्स्य ताम्

स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत

उद्धून्वाना रजो घोरं ताटका राघवावुभौ

रजोमोहेन महता मुहूर्तं सा व्यमोहयत्

ततो मायां समास्थाय शिलावर्षेण राघवौ

अवाकिरत्सुमहता ततश्चुक्रोध राघवः

शिलावर्षं महत्तस्याः शरवर्षेण राघवः

प्रतिहत्योपधावन्त्याः करौ चिच्छेद पत्रिभिः

ततश्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम्

सौमित्रिरकरोत् क्रोधाद्धृतकर्णाग्रनासिकाम्

अन्तर्द्धानं गता यक्षी मोहयन्तीव मायया

अश्मवर्षं विमुञ्चन्ती भैरवं विचचार

ततस्तावश्मवर्षेण कीर्यमाणौ समन्ततः

दृष्ट्वा गाधिसुतः श्रीमानिदं वचनमब्रवीत्

अलं ते घृणया वीर पापैषा दुष्टचारिणी

यज्ञविघ्नकरी यक्षी पुरा वर्द्धति मायया

वध्यतां तावदेवैषा पुरा सन्ध्या प्रवर्तते

रक्षांसि सन्ध्याकालेषु दुर्द्धर्षाणि भवन्ति वै

इत्युक्तस्तु तदा यक्षीमश्मवृष्ट्याभिवर्षतीम्

दर्शयन् शब्दवेधित्वं तां रुरोध सायकैः

सा रुद्धा शरजालेन मायाबलसमन्विता

अभिदुद्राव काकुत्स्थं लक्ष्मणं विनेदुषी

तामापतन्तीं वेगेन विक्रान्तामशनीमिव

शरेणोरसि विव्याध सा पपात ममार

तां हतां भीमसङ्काशां दृष्ट्वा सुरपतिस्तदा

साधु साध्विति काकुत्स्थं सुराश्च समपूजयन्

उवाच परमप्रीतः सहस्राक्षः पुरन्दरः

सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन्

मुने कौशिक भद्रं ते सेन्द्राः सर्वे मरुद्गणाः

तोषिताः कर्मणानेन स्नेहं दर्शय राघवे

प्रजापतेः कृशाश्वस्य पुत्रान् सत्यपराक्रमान्

तपोबलभृतो ब्रह्मन् राघवाय निवेदय

पात्रभूतश्च ते ब्रह्मन् तवानुगमने धृतः

कर्तव्यं महत्कार्यं सुराणां राजसूनुना

एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा यथागतम्

विश्वामित्रं पुरस्कृत्य ततः सन्ध्या प्रवर्तते

ततो मुनिवरः प्रीतस्ताटकावधतोषितः

मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत्

इहाद्य रजनीं राम वसाम शुभदर्शन

श्वःप्रभाते गमिष्यामस्तदाश्रमपदं मम

विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः

उवास रजनीं तत्र ताटकाया वने सुखम्

मुक्तशापं वनं तच्च तस्मिन्नेव तदाऽहनि

रमणीयं विबभ्राज यथा चैत्ररथं वनम्

निहत्य तां यक्षसुतां रामः प्रशस्यमानः सुरसिद्धसङ्घैः

उवास तस्मिन् मुनिना सहैव प्रभातवेलां प्रतिबोध्यमानः