Kanda 1 BK-025-ThaataKaavadha Preranaa

अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम्

श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम्

अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुङ्गव

कथं नागसहस्रस्य धारयत्यबला बलम्

इत्युक्तं वचनं श्रुत्वा राघवस्यामितौजसः

विश्वामित्रोऽब्रवीद्वाक्यं शृणु येन बलोत्तरा

वरदानकृतं वीर्यं धारयत्यबला बलम्

पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान्

अनपत्यः शुभाचारः तेपे महत्तपः

पितामहस्तु सम्प्रीतस्तस्य यक्षपतेस्तदा

कन्यारत्नं ददौ राम ताटकां नाम नामतः

ददौ नागसहस्रस्य बलं चास्याः पितामहः

त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः

तां तु जातां विवर्द्धन्तीं रूपयौवनशालिनीम्

जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम्

कस्यचित्त्वथ कालस्य यक्षी पुत्रमजायत

मारीचं नाम दुर्द्धषं यः शापाद्राक्षसोऽभवत्

सुन्दे तु निहते राम सागस्त्यं मुनिपुङ्गवम्

ताटका सह पुत्रेण प्रधर्षयितुमिच्छति

भक्षार्थं जातसंरम्भा गर्जन्ती साऽभ्यधावत

आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः

राक्षसत्वं भजस्वेति मारीचं व्याजहार सः

अगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान्

पुरुषादी महायक्षी विरूपा विकृतानना

इदं रूपं विहायाऽथ दारुणं रूपमस्तु ते

सैषा शापकृतामर्षा ताटका क्रोधमूर्च्छिता

देशमुत्सादयत्येनमगस्त्यचरितं शुभम्

एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम्

गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम्

ह्येनां शापसंस्पृष्टां कश्चिदुत्सहते पुमान्

निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन

हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम

चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना

नृशंसमनृशंसं वा प्रजारक्षणकारणात्

पातकं वा सदोषं वा कर्तव्यं रक्षता सताम्

राज्यभारनियुक्तानामेष धर्मः सनातनः

अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्या विद्यते

श्रूयते हि पुरा शक्रो विरोचनसुतां नृप

पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत्

विष्णुना पुरा राम भृगुपत्नी दृढव्रता

अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता

एतैश्चान्यैश्च बहुभी राजपुत्र महात्मभिः

अधर्मसहिता नार्यो हताः पुरुषसत्तमैः