Kanda 1 BK-019-Vishvamitrakrutha Ramayaachana

तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम्

हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत

सदृशं राजशार्दूल तवैतद्भुवि नान्यथा

महाकुलप्रसूतस्य वसिष्ठव्यपदेशिनः

यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम्

कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः

अहं नियममातिष्ठे सिद्ध्यर्थं पुरुषर्षभ

तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ

मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ

समांसरुधिरौघेण वेदिं तामभ्यवर्षताम्

अवधूते तथाभूते तस्मिन्नियमनिश्चये

कृतश्रमो निरुत्साहस्तस्माद्देशादपाक्रमे

मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव

तथाभूता हि सा चर्या शापस्तत्र मुच्यते

स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम्

काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि

शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा

राक्षसा ये विकर्तारस्तेषामपि विनाशने

श्रेयश्चास्मै प्रदास्यामि बहुरूपं संशयः

त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति

तौ राममासाद्य शक्तौ स्थातुं कथञ्चन

तौ राघवादन्यो हन्तुमुत्सहते पुमान्

वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ

रामस्य राजशार्दूल पर्याप्तौ महात्मनः

पुत्रकृतस्नेहं कर्तुमर्हति पार्थिव

अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ

अहं वेद्मि महात्मानं रामं सत्यपराक्रमम्

वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः

यदि ते धर्मलाभं यशश्च परमं भुवि

स्थितमिच्छसि राजेन्द्र रामं मे दातुमर्हसि

यदि ह्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः

वसिष्ठप्रमुखाः सर्वे राघवं मे विसर्जय

अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि

दशरात्रं हि यज्ञस्य रामं राजीवलोचनम्

नात्येति कालो यज्ञस्य यथाऽयं मम राघव

तथा कुरुष्व भद्रं ते मा शोके मनः कृथाः

इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः

विरराम महातेजा विश्वामित्रो महामुनिः

तन्निशम्य राजेन्द्रो विश्वामित्रवचः शुभम्

शोकमभ्यगमत्तीव्रं व्यषीदत भयान्वितः

इति हृदयमनोविदारणं मुनिवचनं तदतीव शुश्रुवान्

नरपतिरभवन्महांस्तदा व्यथितमनाः प्रचचाल चासनात्