Kanda 1 BK-017-Ruksha Vaanarothpaththi

पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः

उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम्

सत्यसन्धस्य वीरस्य सर्वेषां नो हितैषिणः

विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः

मायाविदश्च शूरांश्च वायुवेगसमान् जवे

नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान्

असंहार्यानुपायज्ञान् सिंहसंहननान्वितान्

सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव

अप्सरस्सु मुख्यासु गन्धर्वीणां तनूषु

सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान्

पूर्वमेव मया सृष्टो जाम्बवानृक्षपुङ्गवः

जृम्भमाणस्य सहसा मम वक्त्रादजायत

ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम्

जनयामासुरेवं ते पुत्रान् वानररूपिणः

ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः

चारणाश्च सुतान्वीरान् ससृजुर्वनचारिणः

वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमूर्जितम्

सुग्रीवं जनयामास तपनस्तपतां वरः

बृहस्पतिस्त्वजनयत्तारं नाम महाहरिम्

सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम्

धनदस्य सुतः श्रीमान् वानरो गन्धमादनः

विश्वकर्मा त्वजनयन्नल नाम महाहरिम्

पावकस्य सुतः श्रीमान्नीलोऽग्निसदृशप्रभः

तेजसा यशसा वीर्यादत्यरिच्यत वानरान्

रूपद्रविणसम्पन्नावश्विनौ रूपसम्मतौ

मैन्दं द्विविदं चैव जनयामासतुः स्वयम्

वरुणो जनयामास सुषेणं नाम वानरम्

शरभं जनयामास पर्जन्यस्तु महाबलम्

मारुतस्यात्मजः श्रीमान् हनुमान्नाम वानरः

वज्रसंहननोपेतो वैनतेयसमो जवे

ते सृष्टा बहुसाहस्रा दशग्रीववधे गताः

अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः

मेरुमन्दरसङ्काशा वपुष्मन्तो महाबलाः

ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे

यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः

अजायत समस्तेन तस्य तस्य सुतः पृथक्

गोलाङ्गूलीषु चोत्पन्नाः केचित्सम्मतविक्रमाः

ऋक्षीषु तथा जाता वानराः किन्नरीषु

देवा महर्षिगन्धर्वाः तार्क्ष्या यक्षा यशस्विनः

नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः

बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः

वानरान् सुमहाकायान् सर्वान् वै वनचारिणः

अप्सरस्सु मुख्यासु तथा विद्याधरीषु

नागकन्यासु तथा गन्धर्वीणां तनूषु

कामरूपबलोपेता यथाकामं विचारिणः

सिंहशार्दूलसदृशा दर्पेण बलेन

शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः

नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः

विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान्

क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम्

दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम्

नभःस्थलं विशेयुश्च गृह्णीयुरपि तोयदान्

गृह्णीयुरपि मातङ्गान् मत्तान् प्रव्रजतो वने

नर्दमानाश्च नादेन पातयेयुर्विहङ्गमान्

ईदृशानां प्रसूतानि हरीणां कामरूपिणाम्

शतं शतसहस्राणि यूथपानां महात्मनाम्

ते प्रधानेषु यूथेषु हरीणां हरियूथपाः

बभूवुर्यूथपश्रेष्ठा वीरांश्चाजनयन् हरीन्

अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः

अन्ये नानाविधान् शैलान् काननानि भेजिरे

भ्रातरावुपतस्थुस्ते सर्व एव हरीश्वराः

नलं नीलं हनूमन्तमन्यांश्च हरियूथपान्

ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः

विचरन्तोऽर्दयन् दर्पात्सिंहव्याघ्रमहोरगान्

तांश्च सर्वान् महाबाहुर्वाली विपुलविक्रमः

जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान्

तैरियं पृथिवी शूरैः सपर्वतवनार्णवा

कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः

तैर्मेघवृन्दाचलकूटकल्पैर्महाबलैर्वानरयूथपालैः

बभूव भूर्भीमशरीररूपैः समावृता रामसहायहेतोः