Kanda 1 BK-014-Ashva Medhayajanam

अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे

सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत

ऋश्यशृङगं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः

अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः

कर्म कुर्वन्ति विधिवद्याजका वेदपारगाः

यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः

प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः

चक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः

अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि

प्रातःसवनपूर्वाणि कर्माणि मुनिपुङ्गवाः

ऐन्द्रश्च विधिवद्दत्तो राजा चाभिष्टुतोऽनघः

माध्यन्दिनं सवनं प्रावर्तत यथाक्रमम्

तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः

चक्रुस्ते शास्त्रतो दृष्ट्वा तथा ब्राह्मणपुङ्गवाः

ऋष्यश्रङ्गादौ मन्त्रैः शिक्षाक्षरसमन्वितौ

गगीतिभिर्मधुरैः स्निग्धैर्मन्त्राहानैर्यथार्हतः

होतारो ददुरावाह्य हविर्भागान्दिवौकसाम्

चाहुतमभूत्तत्र स्खलितं वापि किञ्चन

दृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे

तेष्वहस्सु श्रान्तो वा क्षुधितो वापि दृश्यते

नाविद्वान् ब्राह्मणस्तत्र नाशतानुचरस्तथा

ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते

तापसा भुञ्जते चापि श्रमणा भुञ्जते तथा

वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव

अनिशं भुञ्जमानानां तृप्तिरुपलभ्यते

दीयतां दीयतामन्नं वासांसि विविधानि

इति सञ्चोदितास्तत्र तथा चक्रुरनेकशः

अन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः

दिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा

नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा

अन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः

अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः

अहो तृप्ताः स्म भद्रं इति शुश्राव राघवः

स्वलङ्कृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन्

उपासते तानन्ये सुमृष्टमणिकुण्डलाः

कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि

प्राहुः स्म वाग्ग्मिनो धीराः परस्परजिगीषया

दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः

सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः

नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः

सदस्यास्तस्य वै राज्ञो नावादकुशला द्विजाः

प्राप्ते यूपोच्छ्रये तस्मिन् षड्बैल्वाः खादिरास्तथा

तावन्तो बिल्वसहिताः पर्णिनश्च तथाऽपरे

श्लेष्मातकमयस्त्वेको देवदारुमयस्तथा

द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ

कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः

शोभार्थं तस्य यज्ञस्य काञ्चनालङ्कृता भवन्

एकविंशति यूपास्ते एकविंशत्यरत्नयः

वासोभिरेकविंशद्भिरेकैकं समलङ्कृताः

विन्यस्ता विधिवत्सर्वे शिल्पिभिः सुकृता दृढाः

अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः

आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः

सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि

इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः

चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि

चित्यो राजसिंहस्य सञ्चितः कुशलैर्द्विजैः

गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः

नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम्

उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः

शामित्रे तु हयस्तत्र तथा जलचराश्च ये

ऋत्विग्भिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा

पशूनां त्रिशतं तत्र यूपेषु नियतं तदा

अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य

कौसल्या तं हयं तत्र परिचर्य समन्ततः

कृपाणैर्विशशासैनं त्रिभिः परमया मुदा

पतत्रिणा तदा सार्द्धं सुस्थितेन चेतसा

अवसद्रजनीमेकां कौसल्या धर्मकाम्यया

होताध्वर्युस्तथोद्गाता हस्तेन समयोजयन्

महिष्या परिवृत्त्या वावातामपरां तथा

पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः

ऋत्विक् परमसम्पन्नः श्रपयामास शास्त्रतः

धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः

यथाकालं यथान्यायं निर्णुदन् पापमात्मनः

हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः

अग्नौ प्रास्यन्ति विधिवत्समन्त्राः षोडशर्त्विजः

प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः

अश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते

चतुष्टोममहस्तस्य प्रथमं परिकल्पितम्

उक्थ्यं द्वितीयं सङ्ख्यातमतिरात्रं तथोत्तरम्

कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात्

ज्योतिष्टोमायुषी चैवमतिरात्रौ विनिर्मितौ

अभिजिद्विश्वजिच्चैवमाप्तोर्यामो महाक्रतुः

प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्द्धनः

अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम्

उद्गात्रे वै तथोदीचीं दक्षिणैषा विनिर्मिता

हयमेधे महायज्ञे स्वयम्भूविहिते पुरा

क्रतुं समाप्य तु तथा न्यायतः पुरुषर्षभः

ऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्द्धनः

ऋत्विजश्चाब्रुवन् सर्वे राजानं गतकल्मषम्

भवानेव महीं कृत्स्नामेको रक्षितुमर्हति

रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप

निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति

मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम्

तत्प्रयच्छ नरश्रेष्ठ धरण्या प्रयोजनम्

एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः

गवां शतसहस्राणि दश तेभ्यो ददौ नृपः

दशकोटीस्सुवर्णस्य रजतस्य चतुर्गुणम्

ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु

ऋश्यशृङ्गाय मुनये वसिष्ठाय धीमते

ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः

सुप्रीतमनसस्सर्वे प्रत्यूचुर्मुदिता भृशम्

ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः

जाम्बूनदं कोटिसङ्ख्यं ब्राह्मणेभ्यो ददौ तदा

दरिद्राय द्विजायाथ हस्ताभरणमुत्तमम्

कस्मैचिद्याचमानाय ददौ राघवनन्दनः

ततः प्रीतेषु नृपतिर्द्विजेषु द्विजवत्सलः

प्रणाममकरोत्तेषां हर्षपर्याकुलेक्षणः

तस्याशिषोऽथ विधिवद्ब्राह्मणैः समुदाहृताः

उदारस्य नृवीरस्य धरण्यां प्रणतस्य

ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम्

पापापहं स्वर्नयनं दुष्करं पार्थिवर्षभैः

ततोऽब्रवीदृश्यशृङ्गं राजा दशरथस्तदा

कुलस्य वर्द्धनं त्वं तु कर्तुमर्हसि सुव्रत

तथेति राजानमुवाच द्विजसत्तमः

भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः

प्रणम्य तस्मै प्रयतो नृपेन्द्र

जगाम हर्षं परमं महात्मा

तम्मुध्यश्रृङ्गं पुनरप्युवाच

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे चतुर्दशः सर्गः