Kanda 1 BK-013-Yagnashala Praveshaha

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत्

प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान्

अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम्

यज्ञो मे क्रियतां विप्र यथोक्तं मुनिपुङ्गव

यथा विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम्

भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान्

वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः

तथेति राजानमब्रवीद्द्विजसत्तमः

करिष्ये सर्वमेवैतद्भवता यत्समर्थितम्

ततोऽब्रवीद्द्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान्

स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान्

गणकान् शिल्पिनश्चैव तथैव नटनर्तकान्

तथा शुचीन् शास्त्रविदः पुरुषान् सुबहुश्रुतान्

यज्ञकर्म समीहन्तां भवन्तो राजशासनात्

इष्टका बहुसाहस्रीः शीघ्रमानीयतामिति

औपकार्याः क्रियन्तां राज्ञां बहुगुणान्विताः

ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः

भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः

तथा पौरजनस्यापि कर्त्तव्या बहुविस्तराः

वाजिवारणशालाश्च तथा शय्यागृहाणि

भटानां महदावासो वैदेशिकनिवासिनाम्

आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः

तथा जानपदस्यापि जनस्य बहु शोभनम्

दातव्यमन्नं विधिवत् सत्कृत्य तु लीलता

सर्ववर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः

चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि

यज्ञकर्मणि ये व्यग्राः पुरुषाः शिल्पिनस्तथा

तेषामपि विशेषेण पूजा कार्या यथाक्रमम्

ते स्युः सम्भृताः सर्वे वसुभिर्भोजनेन

यथा सर्वं सुविहितं किञ्चित् परिहीयते

तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा

ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन्

यथोक्तं तत्सुविहितं किञ्चित् परिहीयते

यथोक्तं तत्करिष्यामो किञ्चित् परिहीयते

ततः सुमन्त्रमानीय वसिष्ठो वाक्यमब्रवीत्

निमन्त्रयस्व नृपतीन् पृथिव्यां ये धार्मिकाः

ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैव सहस्रशः

समानयस्व सत्कृत्य सर्वदेशेषु मानवान्

मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम्

तमानय महाभागं स्वयमेव सुसत्कृतम्

पूर्वसम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते

तथा काशीपतिं स्निग्धं सततं प्रियवादिनम्

वयस्यं राजसिंहस्य स्वयमेवानयस्व

तथा केकयराजानं वृद्धं परमधार्मिकम्

श्वशुरं राजसिंहस्य सपुत्रं त्वमिहानय

अङ्गेश्वरं महाभागं रोमपादं सुसत्कृतम्

वयस्यं राजसिंहस्य समानय यशस्विनम्

मगधाधिपतिं शूरं सर्वशास्त्रविशारदम्

प्राप्तिज्ञं परमोदारं सत्कृतं पुरुषर्षभम्

राज्ञः शासनमादाय चोदयस्व नृपर्षभान्

प्राचीनान् सिन्धुसौवीरान् सौराष्ट्रेयांश्च पार्थिवान्

दाक्षिणात्यान्नरेन्द्रांश्च समस्तानानयस्व

सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले

तानानय यथाक्षिप्रं सानुगान् सह बान्धवान्

वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा

व्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान्

स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात्

सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः

सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम्

ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् पुनरब्रवीत्

अवज्ञया दातव्यं कस्यचिल्लीलयापि वा

अवज्ञया कृतं हन्याद्दातारं नात्र संशयः

ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः

बहूनि रत्नान्यादाय राज्ञो दशरथस्य हि

ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत्

उपयाता नरव्याघ्र राजानस्तव शासनात्

मया सत्कृताः सर्वे यथार्हं राजसत्तमाः

यज्ञियं कृतं राजन् पुरुषैः सुसमाहितैः

निर्यातु भवान् यष्टुं यज्ञायतनमन्तिकात्

सर्वकामैरुपहृतैरुपेतं वै समन्ततः

द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम्

तथा वसिष्ठवचनादृश्यशृङ्गस्य चोभयोः

शुभे दिवसनक्षत्रे निर्यातो जगतीपतिः

ऋश्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा

यज्ञवाटगताः सर्वे यथाशास्त्रं यथाविधि