Kanda 1 BK-008-Ashvamedha Sannahaaha

तस्य त्वेवम्प्रभावस्य धर्मज्ञस्य महात्मनः

सुतार्थं तप्यमानस्य नासीद्वंशकरः सुतः

चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः

सुतार्थी वाजिमेधेन किमर्थं यजाम्यहम्

निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान्

मन्त्रिभिस्सह धर्मात्मा सर्वैरेव कृतात्मभिः

ततोऽब्रवीदिदं राजा सुमन्त्रं मन्त्रिसत्तमम्

शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान्

ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः

समानयत् तान् सर्वान् समस्तान् वेदपारगान्

सुयज्ञं वामदेवं जाबालिमथ काश्यपम्

पुरोहितं वसिष्ठं ये चान्ये द्विजसत्तमाः

तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा

इदं धर्मार्थसहितं वाक्यं श्लक्ष्णमथाब्रवीत्

मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम्

तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम

तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा

कथं प्राप्स्याम्यहं कामं बुद्धिरत्र विचार्यताम्

वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम्

ऊचुश्च परमप्रीताः सर्वे दशरथं वचः

सम्भाराः सम्भ्रियन्तां ते तुरङ्गश्च विमुच्यताम्

सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव

यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता

ततः प्रीतोऽभवद्राजा श्रुत्वैतद्द्विजभाषितम्

अमात्यांश्चाब्रवीद्राजा हर्षपर्याकुलेक्षणः

सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह

समर्थाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम्

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्

शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि

शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता

नापराधो भवेत्कष्टो यद्यस्मिन् क्रतुसत्तमे

छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः

निहतस्य यज्ञस्य सद्यः कर्ता विनश्यति

तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते

तथा विधानं क्रियतां समर्थाः करणेष्विह

तथेति चाब्रुवन् सर्वे मन्त्रिणः प्रत्यपूजयन्

पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तं निशम्य ते

तथा द्विजास्ते धर्मज्ञा वर्द्धयन्तो नृपोत्तमम्

अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम्

विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत्

ऋत्विग्भिरुपदिष्टोऽयं यथावत् क्रतुराप्यताम्

इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान्

विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः

ततः गत्वा ताः पत्नीर्नरेन्द्रो हृदयप्रियाः

उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात्

तासां तेनातिकान्तेन वचनेन सुवर्चसाम्

मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये