Kanda 1 BK-004-Ramayana Gaanam

प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः

चकार चरितं कृत्स्नं विचित्रपदमात्मवान्

चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः

तथा सर्गशतान् पञ्च षट्काण्डानि तथोत्तरम्

कृत्वापि तन्महाप्राज्ञः सभविष्यं सहोत्तरम्

चिन्तयामास को न्वेतत्प्रयुञ्जीयादिति प्रभुः

तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः

अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ

कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ

भ्रातरौ स्वरसम्पन्नौ ददर्शाश्रमवासिनौ

तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ

वेदोपबृंहणार्थाय तावग्राहयत प्रभुः

काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत्

पौलस्त्यवधमित्येव चकार चरितव्रतः

पाठ्ये गेये मधुरं प्रमाणैस्त्रिभिरन्वितम्

जातिभिः सप्तभिर्बद्धं तन्त्रीलयसमन्वितम्

रसैः शृङ्गारकारुण्यहास्यवीरभयानकैः

रौद्रादिभिश्च संयुक्तं काव्यमेतदगायताम्

तौ तु गान्धर्वतत्त्वज्ञौ मूर्च्छनास्थानकोविदौ

भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणौ

रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ

बिम्बादिवोत्थितौ बिम्बौ रामदेहात्तथापरौ

तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम्

वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ

ऋषीणां द्विजातीनां साधूनां समागमे

यथोपदेशं तत्त्वज्ञौ जगतुस्तौ समाहितौ

महात्मानौ महाभागौ सर्वलक्षणलक्षितौ

तौ कदाचित्समेतानामृषीणां भावितात्मनाम्

आसीनानां समीपस्थाविदं काव्यमगायताम्

तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः

साधु साध्विति तावूचुः परं विस्मयमागताः

ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः

प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ

अहो गीतस्य माधुर्यं श्लोकानां विशेषतः

चिरनिर्वृत्तमप्येतत्प्रत्यक्षमिव दर्शितम्

प्रविश्य तावुभौ सुष्ठु तदा भावमगायताम्

सहितौ मधुरं रक्तं सम्पन्नं स्वरसम्पदा

एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर्महात्मभिः

संरक्ततरमत्यर्थं मधुरं तावगायताम्

प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ

प्रसन्नो वल्कले कश्चिद्ददौ ताभ्यां महायशाः

अन्यः कृष्णाजिनमदाद्यज्ञसूत्रं तथापरः

कश्चित्कमण्डलुं प्रादान्मौञ्जीमन्यो महामुनिः

बृसीमन्यस्तदा प्रादात्कौपीनमपरो मुनिः

ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः

काषायमपरो वस्त्रं चिरमन्यो ददौ मुनिः

जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः

यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथापरः

औदुम्बरीं बृसीमन्यः स्वस्ति केचित्तदावदन्

आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः

ददुश्चैवं वरान्सर्वे मुनयः सत्यवादिनः

आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम्

परं कवीनामाधारं समाप्तं यथाक्रमम्

अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ

आयुष्यं पुष्टिजनकं सर्वश्रुतिमनोहरम्

प्रशस्यमानौ सर्वत्र कदाचित्तत्र गायकौ

रथ्यासु राजमार्गेषु ददर्श भरताग्रजः

स्ववेश्म चानीय ततो भ्रातरौ कुशीलवौ

पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः

आसीनः काञ्चने दिव्ये सिंहासने प्रभुः

उपोपविष्टः सचिवैर्भ्रातृभिश्च परन्तपः

दृष्ट्वा तु रूपसम्पन्नौ तावुभौ नियतस्तदा

उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा

श्रूयतामिदमाख्यानमनयोर्देववर्चसोः

विचित्रार्थपदं सम्यग्गायिनौ तावचोदयत्

तौ चापि मधुरं रक्तं स्वञ्चितायतनिःस्वनम्

तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम्

ह्लादयत् सर्वगात्राणि मनांसि हृदयानि

श्रोत्राश्रयसुखं गेयं तद्बभौ जनसंसदि

इमौ मुनी पार्थिवलक्षणान्वितौ कुशीलवौ चैव महातपस्विनौ

ममापि तद् भूतिकरं प्रवक्ष्यते महानुभावं चरितं निबोधत

ततस्तु तौ रामवचः प्रचोदितावगायतां मार्गविधानसम्पदा

चापि रामः परिषद्गतः शनैर्बुभूषयासक्तमना बभूव

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे चतुर्थः सर्गः