Kanda 1 BK-003-Samkshipta Rama Katha

श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम्

व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः

उपस्पृश्योदकं सम्यङ्मुनिः स्थित्वा कृताञ्जलिः

प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषत गतिम्

रामलक्ष्मणसीताभी राज्ञा दशरथेन

सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः

हसितं भाषितं चैवं गतिर्या यच्च चेष्टितम्

तत्सर्वं धर्मवीर्येण यथावत् सम्प्रपश्यति

स्त्रीतृतीयेन तथा यत्प्राप्तं चरता वने

सत्यसन्धेन रामेण तत्सर्वं चान्ववेक्षितम्

ततः पश्यति धर्मात्मा तत्सर्वं योगमास्थितः

पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा

तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण महाद्युतिः

अभिरामस्य रामस्य चरितं कर्त्तुमुद्यतः

कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम्

समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम्

यथा कथितं पूर्वं नारदेन महर्षिणा

रघुवंशस्य चरितं चकार भगवानृषिः

जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम्

लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम्

जानक्याश्च विवाहं धनुषश्च विभेदनम्

रामरामविवादं गुणान् दाशरथेस्तथा

तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम्

विघातं चाभिषेकस्य रामस्य विवासनम्

राज्ञः शोकविलापं परलोकस्य चाश्रयम्

प्रकृतीनां विषादं प्रकृतीनां विसर्जनम्

निषादाधिपसंवादं सूतोपावर्तनं तथा

गङ्गायाश्चापि सन्तारं भरद्वाजस्य दर्शनम्

भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम्

वास्तुकर्म विवेशं भरतागमनं तथा

प्रसादनं रामस्य पितुश्च सलिलक्रियाम्

पादुकाग्र्याभिषेकं नन्दिग्रामनिवासनम्

दण्डकारण्यगमनं विराधस्य वधं तथा

दर्शनं शरभङ्गस्य सुतीक्ष्णेनाभिसङ्गमम्

अनसूयासहास्यामप्यङ्गरागस्य चार्पणम्

अगस्त्यदर्शनं चैव शूर्पणख्याश्च दर्शनम्

शूर्पणख्याश्च संवादं विरूपकरणं तथा

वधं खरत्रिशिरसोरुत्थानं रावणस्य

मारीचस्य वधं चैव वैदेह्या हरणं तथा

राघवस्य विलापं गृध्रराजनिबर्हणम्

कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम्

शबरीदर्शनं चैव फलमूलाशनं तथा

प्रलापं चैव पम्पायां हनुमद्दर्शनं तथा

विलापं चैव पम्पायां राघवस्य महात्मनः

ऋश्यमूकस्य गमनं सुग्रीवेण समागमम्

प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम्

वालिप्रमथनं चैव सुग्रीवप्रतिपादनम्

ताराविलापं समयं वर्षरात्रनिवासनम्

कोपं राघवसिंहस्य बलानामुपसङ्ग्रहम्

दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम्

अङ्गुलीयकदानं ऋक्षस्य बिलदर्शनम्

प्रायोपवेशनं चैव सम्पातेश्चैव दर्शनम्

पर्वतारोहणं चैव सागरस्य लङ्घनम्

समुद्रवचनाच्चैव मैनाकस्य दर्शनम्

सिंहिकायाश्च निधनं लङ्कामलयदर्शनम्

रात्रौ लङ्काप्रवेशं एकस्य विचिन्तनम्

आपानभूमिगमनमवरोधस्य दर्शनम्

दर्शनं रावणस्यापि पुष्पकस्य दर्शनम्

अशोकवनिकायानं सीतायाश्चैव दर्शनम्

अभिज्ञानप्रदानं सीतायाश्चाभिभाषणम्

राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम्

मणिप्रदानं सीताया वृक्षभङ्गं तथैव

राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम्

ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम्

प्रतिप्लवनमेवाथ मधूनां हरणं तथा

राघवाश्वासनं चैव मणिनिर्यातनं तथा

सङ्गमं समुद्रेण नलसेतोश्च बन्धनम्

प्रतारं समुद्रस्य रात्रौ लङ्कावरोधनम्

विभीषणेन संसर्गं वधोपायनिवेदनम्

कुम्भकर्णस्य निधनं मेघनादनिबर्हणम्

रावणस्य विनाशं सीतावाप्तिमरेः पुरे

विभीषणाभिषेकं पुष्पकस्य दर्शनम्

अयोध्यायाश्च गमनं भरद्वाजसमागमम्

प्रेषणं वायुपुत्रस्य भरतेन समागमम्

रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्

स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम्

अनागतं यत्किञ्चिद्रामस्य वसुधातले

तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः