Pm41-50

तस्याः किञ्चित् करधृतमिव प्राप्त्वानीरशाखं

नीत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम्

प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि

ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः

त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः

स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः

नीचैर्वास्यत्युपजिगमिषोः देवपूर्वं गिरिं ते

शीतो वायुः परिणमयिता काननोदुम्बराणाम्

तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा

पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः

रक्षाहेतोर्नवशशिभृता वासवीनां चमूनाम्

अत्यादित्यं हुतवहमुखे संभृतं तद्धितेजः

ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी

पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति

धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं

पश्चादद्रिग्रहणगुरुभिः गर्जितैर्नर्तयेथाः

आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा

सिद्धद्वन्द्वैर्जलकणभयाद् वीणिभिर्मुक्तमार्गः

व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन्

स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम्

त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे

तस्याः सिन्धोः पृथुमपि तनुं दूरभावात् प्रवाहम्

प्रेक्षिष्यन्ते गगनगतयः नूनमावर्ज्य दृष्टीः

एकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम्

तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां

पक्ष्मोत्क्षेपाद् उपरिविलसत्कृष्णशारप्रभाणाम्

कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं

पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम्

ब्रह्मावर्तं जनपदम् अथ च्छायया गाहमानः

क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः

राजन्यानां शितशरशतैः यत्र गाण्डीवधन्वा

धारापातैस्त्वमिव कमलान्यभ्यवर्षन् मुखानि

हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां

बन्धुप्रीत्या समरविमुखः लाङ्गली याः सिषेवे

कृत्वा तासामधिगममपां सौम्य सारस्वतीनाम्

अन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः

तस्माद्गच्छेः अनुकनखलं शैलराजावतीर्णां

जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम्

गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः

शम्भोः केशग्रहणमकरोद् इन्दुलग्नोर्मिहस्ता