Pm11-20

कर्तुं यच्च प्रभवति महीम् उच्छिलीन्ध्रामवन्ध्यां

तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः

कैलासाद् बिसकिसलयच्छेदपाथेयवन्तः

संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः

आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलं

वन्द्यैः पुंसां रघुपतिपदैः अङ्कितं मेखलासु

काले काले भवति भवतो यस्य संयोगमेत्य

स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम्

मर्गं तावच्छृणु कथयतः त्वत्प्रयाणानुरूपं

संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम्

खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र

क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य

अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभिः

दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः

स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खं

दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान्

रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ताद्

वल्मीकाग्रात् प्रभवति धनुःखण्डमाखण्डलस्य

येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते

बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः

त्वय्यायन्तं कृषिफलमिति भ्रूविकारानभिज्ञैः

प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः

सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं

किंचित् पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण

त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना

वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः

क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय

प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तत्थोच्चैः

छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैः

त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे

नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां

मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः

स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं

तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्मतीर्णः

रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां

भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य

तस्यास्तिक्तैः वनगजमदैरः वासितं वान्तवृष्टिः

जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः

अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां

रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय